________________
१५४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् विभागादावप्याकाशस्याहेतुत्वापत्तिः ? द्रव्यत्वेन तद्धतुत्वसम्भवात् । अत एवाधारत्वेन काल-दिशोः कार्यसामान्यहेतुत्वं निष्प्रत्यूहम्, विनापि कालिकपरत्वादिपूर्ववर्तित्वग्रहमाधारत्वेन पूर्ववर्तित्वग्रहसम्भवात् । न चैवं विभुत्वेनाकाशस्यापि कार्यसामान्यहेतुत्वं स्यात् । विभागादिकं प्रत्यपीति संयोग विभागादिकारणत्वमपि तस्य न स्यादित्याशङ्कय प्रतिक्षिपति- न चंति । एवं शब्दाश्रयत्वेन जनकत्वे उक्त दिशा निरुक्तान्यथासिद्धत्वे । निषेधे हेतुमाह- द्रव्यत्वेनेति-संयोगविभागादेः समवायेन द्रव्यमात्र एवोत्पादेन तदनुरोधेन समवायेन संयोग-विभागादिकं प्रति तादात्म्येन द्रव्यत्वेन द्रव्यमात्रस्य कार. णत्वस्य वाच्यतया द्रव्यत्वेनाकाशस्यापि संयोग-विभागादिहेतुत्वसम्भवादित्यर्थः । अत एव एकरूपेणान्यथासिद्धस्याप्यन्यरूपेण कारण त्वादेव । कलिकपरत्वादि' इत्यादिपदात् कालिकाऽपरत्व-दैशिकपरत्वापरत्वानामुपग्रहः। विनापीति- कालिकपरत्वाऽपरत्वनिमित्तकारणत्वेन कालस्य देशिकपरत्वाऽपरत्वनिमित्तकारणत्वेन दिशश्च कार्यसामान्य प्रति कारणत्वं स्वीक्रियेत तर्हि कालस्य कालिकपरत्वाऽपरत्वे प्रतिपूर्ववर्तित्वं गृहीत्वैव कार्यसामान्य प्रति पूर्ववर्तित्वं गृह्यत इति कालस्य कार्यसामान्यं प्रत्यन्यत्थासिद्धत्वं स्यात् , एवं दिशोऽपि दैशिकपरत्वाऽपरत्वे प्रति पूर्ववर्तित गृहीत्वैव कार्यसामान्य प्रति पूर्ववर्तित्वं गृह्यत इति दिशः कार्यसामान्यं प्रत्यन्यथासिद्धत्वं भवेत् ; न चैषम् , किन्तु कार्यसामान्यं प्रति कालदिशोराधारत्वेनैव कारणत्वम्, कालस्य कालकृतविशेषणतासम्बन्धेन कालिकसम्बन्धापरपर्यायेण जगत आधारत्वम् , दिशश्च दिकृतविशेषणतासम्बन्धेन जगत आधार त्वमिति तदूपेण तयोः कार्यसामान्य प्रति कारणत्वाभ्युपगमे आधारत्वेन कार्यसामान्यं प्रति पूर्ववर्तित्वग्रहस्य कालिकपरत्वाऽपरत्वादिपूर्ववर्तित्वग्रहं विनापिसम्भवन निरुक्तान्यथासियापत्त्यसम्भवादित्यर्थः । कार्यसामान्यं प्रत्याकाशस्य विभुत्वेन कारणत्वमाशङ्कय प्रति.