________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १३३ विद्यत इति, वैशिष्ट्यसम्बन्धवादिमते पुनः स्वप्रतियोगिसमवेतत्वसम्बन्धस्थाने स्वप्रतियोगिनिरूपितवैशिष्ट्यसम्बन्धावच्छिन्नवृत्तिस्वस्वरूपस्य स्वप्रतियोगिवैशिष्ट्यसम्बन्धस्यैव प्रवेशः, एवं च घटगतक्रियादिध्वंसः स्वप्रतियोगिवैशिष्ट्यस्वाधिकरणत्वोभयसम्बन्धेन घटनाशवान् भवति, ततो घटगतक्रियादिध्वंसनिष्ठप्रतियोगिताकध्वंसोनिरुक्तनाशवन्नाशत्वरूपकार्यतावच्छेदकधर्माक्रान्तः प्रतियोगि. तया घटगतक्रियादिनाशे उत्पद्येत, तत्र घटनाशोऽपि स्वप्रतियोगिनिरूपितवैशिष्ट्यसम्बन्धावच्छिन्नवृत्तित्वलक्षणस्वप्रतियोगिवैशिष्ट्यसम्बन्धेन वर्तत इति निरुक्तकार्यकारणभावाभ्युपगमेऽपि ध्वंसध्वंसापत्तिरित्यर्थः, नाशवन्नाशत्वलक्षणकार्यतावच्छेदकधर्मघटकनाशवत्वं स्वप्रतियोगिलमवेतत्व-स्वाधिकरणत्वोभयसम्बन्धेन समवायसम्बन्धवादिनो यदभिमतं, तत्र स्वप्रतियोगिसमवेतत्वसम्बन्धस्य प्रवेशो ध्वंसस्य नाशवत्त्वाभावसम्पादनाय, ध्वंसस्य नाशवत्त्वाभावे च ध्वंसध्वंसस्य नाशवन्नाशत्वलक्षणकार्यतावच्छेदकधर्मानाक्रान्तत्वान्नापत्तिसम्भवः, कालिकसम्बन्धेन स्वाधिकरणत्वसम्बन्धस्य प्रवेशस्तु घटादिकालीनघटादिवृत्तिक्रियादिनाशे व्यतिरेकव्यभिचारवारणाय, समानकालीनयोरेव कालिकसम्बन्धस्याभ्युपगमेन घटवृत्तिघटकालीनक्रियाया असमानकालीनघटनाशस्य कालिकसम्बन्धेनाधिकरणत्वासम्भवात् , यथा घटकालीनघटगतक्रियायाः कालिकसम्बन्धेन घटनाशाधिकरणत्वाभावेन निरुक्तोभयसम्बन्धेन नाशवत्वाभावाद् घटगतक्रियानाशस्य नाशवनाशत्वलक्षणकार्यतावच्छेदकधर्मानाक्रान्तत्वाद् घटनाशलक्षणकारणमन्तरेण तद्भावेऽपि न व्यतिरेकव्यभिचारः, तथा घटगत जातो घटनाशस्य कालिकसम्बन्धेन नाधिकरणत्वं नित्ये कालिकायोगादिति नाशवन्नाशत्वलक्षणकार्यतावच्छेदकधर्मस्य जातिनाशेऽभावादेव न तदापत्तिर्घटनाशादिति तदापत्तिवारणमपि स्वाधिकरणत्वसम्बन्धनिवेशप्रयोजनम् , एतदभिसन्धायैव कालिकसम्बन्धेन स्ववृत्तित्वं घटादिगतघटादिकालीन