________________
१३२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् हेतुत्वान्न जात्यादे शापत्तिः, परस्य तु ध्वंसध्वंसापत्तिारेति
कालिकसम्बन्धेन जन्यमाने कालोपाधौ सत्त्वेऽपि कालानुपाधौ नित्ये न कस्यापि कालिकसम्बन्धेन वृत्तिरिति न नित्यं कालिकसम्बन्धेन कस्याप्यधिकरणमिति घटगतजातो घटनाशस्य न कालिकसम्बन्धा वच्छिन्नघटनाशनिष्ठनिरूपकतानिरूपिताधिकरणत्वलक्षणस्वाधिकरणत्वसम्बन्ध इति घटगतजातिर्न घटनाशवतीति तनिष्ठप्रतियोगिता. कनाशो न नाशवनाशत्वलक्षणकार्यतावच्छेदकाक्रान्त इति न घटनाशात् तद्गतजातिनाशापत्तिरिति । निरुक्तकार्यकारणभावे घटकाले तद्गतक्रियानाशे व्यतिरेकव्यभिचारोऽपि न भवति, यतः तद्गतक्रियायां तद्धटनाशस्योत्तरकालभाविनः स्वप्रतियोगी तद्धटः, तन्निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वस्वरूपतत्समवेतत्वस्य सत्त्वेऽपि घटगत. क्रियाकाले न घटनाश इति विभिन्नकालीनघटनाशस्य कालिकसम्बन्धावच्छिन्नस्वनिष्ठनिरूपकतानिरूपिताधिकरणत्वलक्षणस्वाधिकरणत्वस्याभावान्निरुक्तोभयसम्बन्धेन घटनाशवती घटगतक्रिया न भवति, ततस्तनिष्ठप्रतियोगिताकनाशस्य नाशवन्नाशत्वलक्षणनिरुक्त. कार्यतावच्छेदकधर्मानाक्रान्तत्वेन घटनाशस्य तं प्रति कारणत्वा भावेन तदभावे तस्य भावस्य व्यतिरेकव्यभिचाररूपत्वाभावात् । परस्थ वित्यादि- समवायानभ्युपगन्तुवैशिष्ट्यसम्बन्धवादिनः परस्य पुनः, स्वमते तावत्, घटगतस्य पाकजरूपादिनाशस्य संयोग-विभागा दिनाशस्य क्रियानाशस्य च नाशापत्तिर्न सम्भवति, यतो घटगतक्रियादिनाशः स्वप्रतियोगिसमवेतत्वस्वाधिकरणत्वोभयसम्बन्धेन न किश्चिन्नाशवान् , कस्यापि नाशस्य प्रतियोगिनि समवायसम्बन्धेन वृत्तित्वस्य क्रियादिनाशेऽभावादिति क्रियादिनाशनिष्ठप्रतियोगिताकनाशो नाशवन्नाशत्वरूपकार्यतावच्छेदकधर्माक्रान्तो न भवति, सम्भाव्यमानः स च प्रतियोगितासम्बन्धेन क्रियादिनाशे उत्पद्येत, न च तत्रोसमवेते स्वप्रतियोगिसमवेतत्वसम्बन्धेन घटनाशोऽपि