________________
१३४ ]
[ तत्त्वबोधिनी विवृतिविभूषितम्
क्रियादिनाशे व्यतिरेकव्यभिचारवारणप्रयोजनकमपि जातिनाशापत्तिवारणासमर्थत्वात् परित्यज्य कालिकसम्बन्धेन स्वाधिकरणत्वं सम्बन्धमध्ये समवायवादिना निवेशितम्, नित्ये कालिकायोग इति नियमतो यथा न जातौ घटध्वंसस्य कालिकसम्बन्धेनाधिकरणत्वं तथोक्तनियमादेव नित्याया जातेर्न कालिकसम्बन्धेन घटध्वंसनिरूपितवृत्तित्वमित्येतावताऽपि नाशवन्नाशत्वलक्षणकार्यतावच्छेदक. धर्मानाक्रान्तत्वान्न घटगतजातिनाशस्य घटनाशादापत्तिरिति न चेतसि निधेयम्, यत 'इदानीं घटोऽस्ति इदानीं पटो नास्ति' इत्यादिप्रतीत्या पतत्काले घटस्य सत्त्वम्, पतत्काले पटस्यासत्त्वं चोरीकरणीयम्, तत्र एतत्कालो यदि वर्तमानसूर्यपरिस्पन्दस्तदा तेन सह घटस्य संयोगसमवायादिलक्षणः साक्षात्सम्बन्धो नास्तीति घटस्य स्वसंयुक्तसंयुक्तवृत्तित्वं सूर्यपरिस्पन्दे सूर्यपरिस्पन्दस्य च स्वाश्रयसंयुक्तसंयुक्तत्वं घटे सम्बन्धो वाच्यः, उक्त परम्परासम्बन्धघटकश्च कालः, यतः स्त्रं घटः, तत्संयुक्तः कालः, तत्संयुक्तः सूर्यः, तद्वत्तित्वं सूर्यपरिस्पन्दे वर्तते, एवं स्त्रं सूर्यपरिस्पन्दः, तदाश्रयः सूर्यः, तत्संयुक्तः कालः, तत्संयुक्तत्वं घटे समस्तीति सोऽयं परम्परासम्बन्धः कालं घटकतयोपादायैव सम्भवतीति कालस्यावश्यस्वीकर्तव्यत्वे तत्तत्सूर्यपरिस्पन्दावच्छिन्नकाल पव घटादेः स्वरूपसम्बन्धः साक्षादुररीकरणीयः, स च स्वरूपसम्बन्धः कालकृतत्वात् कालिक इत्युच्यते, कालश्च विभुर्नित्यो द्रव्यस्वरूपो महाकाल इति व्यपदिश्यते, तत्र च कालिकसम्बन्धेन सर्वं वस्तु वर्तते नित्यानामपि महाकाले कालिकसम्बन्धेन वृत्तित्वं समस्त्येव, कालिकसम्बन्धेन जगदाधारत्वमेव महाकालस्यान्यतो वैलक्षण्यम्, तथा च 'इदानीं तदानीम्' इत्यादिप्रतीतिविषयो यदि महाकाल एव तदा तस्य कालिकसम्बन्धेन किञ्चिदनधिकरणत्वस्याभावेन 'इदानीं स घटो नास्ति, तदानीं स घटो नासीदेव' इत्यादिप्रतीतिनोपपद्येत, अतः तत्तत्सूर्य परिस्पन्दाद्युपाध्यवच्छिन्न कालस्यैव 'इदानों
"