________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२९
वृत्तित्वेन हेतुत्वे घटादिवृत्तिध्वंसध्वंसापत्तेरिति वाच्यम्; तवाऽपि जात्यादौ तदापत्तेर्महाप्रलयाऽवृत्तित्वेन सत्त्वेन वा प्रतियोगिनो हेतुत्वधौव्ये ममापि ध्वंसे तदनापत्तेः । न च स्वप्रतियोगिसमवायि
सस्य कार्यतावच्छेदक घटादिसमवेतनाशत्व रूपधर्मानाक्रान्तत्वादेव न तदापत्तिरिति चेत्, न यतः कार्यतावच्छेदकधर्मकोटौ समवेतत्वनिवेशे तद्घटकतयैव समवायसिद्धिः स्याद्, अतः कार्यतावच्छेदककोटौ समवेतत्वपदेन समवायसम्बन्धावच्छिन्नवृत्तित्वं न विवक्षितम्, किन्तु वृत्तित्वमात्रमेव विवक्षितमिति बोध्यम् । निषेधे हेतुमाह - तवापीति - समवायाभ्युपगन्तुरपीत्यर्थः । तदापत्तेः प्रतियोगितया ध्वंसापत्तेः घटादिनाशरूपकारणस्य स्वप्रतियोगिसमवेतत्वसम्बन्धेन घटादिसमवेतजात्यादावपि सत्त्वात् । ननु प्रतियोगितासम्बन्धेन नाशं प्रति तादात्म्यसम्बन्धेन प्रतियोग्यपि कारणम्, तस्य कारणत्वं च महाप्रलयावृत्तित्वेन सत्त्वेन वा, तथा च प्रतियोगिनिष्टतादात्म्यसम्बन्धावच्छिन्नकारणतावच्छेदकस्य महाप्रलयावृत्तित्वस्य सत्त्वस्य वाऽभावान्न जात्यादौ प्रतियोगितया ध्वंसापत्तिरित्यत आह- महाप्रलयावृत्तित्वेनेति । ममापि समवायमनभ्युपगम्य स्वप्रतियोगिवृत्तित्वसम्बन्धेनैव घटादिनाशस्य हेतुत्वाभ्युपगन्तुरपि । तदापत्तेः प्रतियोगितासम्बन्धेन ध्वंसानापत्तेः घटादिवृत्तिध्वंसस्य महाप्रलयवृत्तित्वेन सत्त्वलक्षणजात्यनाक्रान्तत्वेन च तादात्म्य सम्बन्धेन महाप्रलयावृत्तिस्वरूपस्य सत्त्वलक्षणजातिमतश्चानाश्रयत्वात् तद्रूपकारणाभावादित्यर्थः । ननु प्रतियोगितासम्बन्धेन घटादिसम - वेतनाशं प्रति घटादिनाशस्य स्वप्रतियोगिसमवायिकारणकत्वसम्बन्धेन कालावच्छिन्नस्वप्रतियागिसमवेतत्वसम्बन्धेन वा कारणत्वम्, तावतैव समवायाभ्युपगन्तृमते न जात्यादौ प्रतियोगितया नाशापत्ति', घटादिनाशप्रतियोगिघटादि- समवायिकारणकत्वस्य नित्यत्वेन, तेनैव च कालावच्छिन्नघटसमवेतत्वस्य जात्यादावभावेन तत्सम्बन्धेन
૯