________________
१३० ]
[तत्त्वबोधिनीविवृत्तिविभूषितम् कारणत्वेन कालावच्छिन्नस्वप्रतियोगिसमवेतत्वेन वा नाशकत्वस्वीकारान्मम न जात्यादौ तदापत्तिरिति वाच्यम् , सम्बन्धमध्ये समवायिकारणत्व-कालावच्छिन्नत्वप्रवेशापेक्षयालाघवात् सत्वनिवेशस्यैवौचित्येन मत्पक्ष एव दोषाभावात् । न च, घटादिसमवेतनाशमात्रे न घटादिनाशो हेतुः, घटादिकालीनतवृत्ति-क्रियासंयोग-विभाग-वेम-द्वित्वादिनाशे व्यभिचारात , किन्तु प्रतिघटादिनाशस्य तत्राभावादित्याशङ्का प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । मम समवायाभ्युपगन्तुः, 'मते' इति शेषः । तदापत्तिः प्रतियोगितासम्बन्धेन ध्वंसापत्तिः । निषेधे हेतुमाहसम्बन्धमध्य इति- सम्बन्धकोटावित्यर्थः। सत्त्वनिवेशस्यैवेति-प्रतियोगितासम्बन्धेन घटादिसमवेतनाशं प्रति सत्त्वे सति स्वप्रतियोगिवृत्तित्वसम्बन्धेन घटादिनाशस्य हेतुमित्येव स्वीकरणीयम् , सत्त्वस्य जात्यादाविव घटादिवृत्तिध्वंसेऽप्यभावात् तत्र प्रतियोगितया नाशापत्तरयोगादित्यर्थः। मत्पक्षे समवायानभ्युपगन्तुमते । एवकारोऽ. प्यर्थकः। समवायवादिनः शङ्कामुद्भाव्य प्रतिक्षिपति- न चेतिअस्य 'वाच्यम्' इत्यनेन सम्बन्धः। घटादिसमवेतनाशमात्रे घटादिनाशस्य कुतो न हेतुत्वमित्यपेक्षायामाह- घटादिकालीनेति-घटादिकालीनो यः, तवृत्तेः-घटादिवृत्तेः, क्रिया संयोग-विभाग-वेगद्वित्वादे शः, तत्र व्यभिचारात् व्यतिरेकन्यभिचारात् , घटादिसत्त्वदशायां घटादिनाशस्याभावेऽपि घटादिवृत्तिक्रियासंयोग-विभागवेग-द्वित्वादिनाशस्य भावात्। तर्हि कीदृशः कार्यकारणभावोऽभ्युपेय इत्यपेक्षायामाह- किन्विति- प्रतियोगितया इत्यस्य प्रतियोगितासम्बन्धेनेत्यर्थः, अयं च नाशवन्निष्ठप्रतियोगितानिरूपकनाशनिष्ठा या नाशवनाशत्वावच्छिन्ना कार्यता तदवच्छेदका सम्बन्धः, 'नाशवद्' इत्यत्र नाशवत्वे 'स्वप्रतियोगिसमवेतत्वस्वाधिकरण