________________
१२८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् रूपेण स्पन्दादेरपि जन्यभाववत्वाचेति वाच्यम् ; तथापि कालिकविशेषणतादिभिन्नपदार्थमात्राधारतानियामकसम्बन्धस्यैव सिद्धौ तस्यैव वैशिष्टयाभिधानत्वात् , तेन जन्यभावादेः कार्यत्वोक्तौ दोषाभावात् । न च, प्रतियोगितया घटादिसमवेतनाशे स्वप्रतियोगिसमवेतत्वेन घटादिनाशस्य हेतुत्वात् समवायसिद्धिः, स्वप्रतियोगिवैशिष्टयं न जन्यभावस्य स्पन्दादाविति न व्यभिचार इत्याहकालिकेति । ' पदार्थमात्राधारताऽनियामक ' इत्यकारप्रश्लेषः, अथवाऽकारप्रश्लेषो न कर्तव्यः, पदार्थमात्रं- पदार्थ एव हि निरुतसम्बन्धेन स्वस्वप्रतिनियताधिकरणे वर्तत इति तदपि पदार्थमात्राधारतानियामक मिति बोध्यम् । तस्यैव निरुक्तसम्बन्धस्यैव । तेन वैशिष्ट्यसम्बन्धेन ।
परस्य समवायसिद्धये प्रकारान्तमाशक्य प्रतिक्षिपति-न चेतिअस्य वाच्यम्' इत्यनेनान्वयः। प्रतियोगितासम्बन्धेन घटादिसमवेतनाशं । प्रति स्वप्रतियोगिसमवेतत्वसम्बन्धेन घटादिनाशस्य हेतुत्वम् , घटादिनाशः स्वप्रलियोगिसमवेतत्वसम्बन्धेन घटादिसमवेते वर्तत इति तत्र घटादिसमवेतनाशोऽपि प्रतियोगितासम्बन्धे. नोत्पद्यत इति, स्वप्रतियोगिसमवेतत्वं च स्वप्रतियोगिनिरूपित. समवायसम्बन्धावच्छिन्नवृत्तित्वमिति कारणतावच्छेदकसम्बन्ध घटकतया समवायसिद्धिरित्यर्थः। ननु स्वप्रतियोगिनिरूपितवृत्तित्वसम्बन्धेनैव घटादिनाशस्य हेतुत्वमस्त्विति कारणतावच्छेदकसम्बन्ध कोटौ समवायस्याऽप्रवेशान्न समवायसिद्धिरित्यत आह-स्वप्रतियोगि. वृस्त्वेिनेति-स्वप्रतियोगिनिरूपितवृत्तित्वसम्बन्धेनेत्यर्थः । घटादीतिघटादिवृत्तिर्यः संयोगादिध्वंसस्तत्र स्वप्रतियोगिनिरूपितवृत्तित्वसम्बन्धेन घटादिनाशस्य सत्त्वात् घटादिसमवेतनाशरतत्र प्रतियोगितया जायेतेति घटादिवृत्ति[संयोगादि]ध्वंसस्य सः स्यादित्यर्थः। ननु घटादिसमवेतनाशस्य प्रतियोगिता घटादिसमवेते वर्तते घटादिबृत्तिध्वंसस्तु घटादिसमवेत एव न भवतीति घटादिवृत्तिध्वंस.