________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२५ वैशिष्टयमप्यतिरिच्यते, जलादौ वह्वयाद्यभावप्रमायाः सम्बन्धनियतत्वाद् , अभावस्य संयोगादिवाधादतिरिक्तसम्बन्धसिद्धेः। न . च, स्वरूपसम्बन्धेनैव तत्प्रमासम्भवान्न वैशिष्टयसिद्धिः , अतिरिक्तवैशिष्टयप्रमायामपि तथैव वाच्यत्वादिति वाच्यम् ; समवायोच्छेदशक्तेरपि पदार्थान्तरतया परिगणनमुचितम् , तदनभिधानात् षोढा पदार्थविभजनं वैशेषिकाणामनुचितमित्याह- गृह्यम णेति ।
वैशिष्टयनामकस्य पदार्थान्तरस्य सत्त्वादपि षोढा पदार्थविभजनमयुक्तमित्याह-वेशिष्टयमण्यतिरिच्यत इति । जलावादिति- जलादौ वह्नयाद्यभावप्रमा तदा भवेद् यदि जलादौ वह्नयाद्यभावस्य कश्चित् सम्बन्धः स्यात्, सम्बन्धमन्तरेण प्रमात्मकविशिष्टयुद्धयनुपपत्तेः, न च संयोगादिरभावस्य सम्बन्ध इति वैशिष्टयाख्योऽतिरिक्तः सम्बन्धोऽभ्युपगन्तव्य इत्यर्थः, अत्र वह्नयभाववान् जलादिरिति विशिष्ट प्रमा विशेषण-विशेष्यसम्बन्धनिमित्तका विशेषण-विशेष्यसम्बन्ध. विषया वा विशिष्टप्रमात्वाद् दण्डी पुरुष इति विशिष्टप्रमावदित्यनुमानप्रयोगो बोध्यः। ननूक्त विशिष्टप्रमा स्वरूपसम्बन्धेनैव भविष्यति, अतिरिक्त वैशिष्ट्याभ्युपगमेऽपि तद्विशिष्टप्रमायाः स्वरूपसम्बन्विषयकत्वस्य स्वरूपसम्बन्धनिमित्तकत्वस्य वावश्यमनवस्थाभयेनाङ्गीकरणीयतयाऽभावविशिष्टबुद्धेरेव स्वरूपसम्बन्धनिमित्तकत्वस्य स्वरूपसम्बन्धविषयकत्वस्य वा स्वीकारौचित्यादित्याशङ्कां प्रतिक्षिपतिन चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः। तत्प्रमासम्भवात् जलादौ वयाद्यभावप्रमासम्भवात् । तथैव वाच्यत्वात् स्वरूपसम्बन्धनिमित्तकत्वस्यैव वाच्यत्वात् , तद् वरं प्रथमत एव स्वरूपसम्बन्धनिमित्तकत्वस्वीकार इति निगर्वः। निषेधे हेतुमाह- समवायोच्छे इप्रसङ्गादिति-गुण-क्रियादिविशिष्टबुद्धिर्धिशेषण-विशेष्यसम्बन्धविषया विशिष्टबुद्धित्वाद् दण्डी पुरुष इति विशिष्टबुद्धिवदित्यनुमानेनैव संयोगादिबाधात् समः वायसिद्धिरुपेयते भवद्भिः, साऽपि न स्यात् , गुणक्रियादिविशिष्ट