________________
१२४ ]
[ तत्त्वबोधिनी विवृतिविभूषितम्
चादृष्टे पाप-पुण्यरूपे साङ्कर्यादनुगतविशेषसम्भवः । न चावयवोद्भूतरूपादिकमेवावयव्युद्भूतरूपादिजनकमिति नोक्त नियमानुपपत्तिः, योग्यायोग्यजलारम्भकपरमाणु भेदाभ्युपगमे गौरवाद्, वाय्वाद्याकृष्टसुरभिभागाद्यारब्धतायाश्चम्पकादावनुपपत्तेश्च । न चेष्टापत्तिः, एवं सति गृह्यमाणकर्पूरादिभागानां कर्पूराद्यनारम्भकाणामपगमाभ्युकर्पूरादेववादिनाऽप्रक्षयप्रसङ्गादिति दिग् ||
विन्यवयवोद्भूतरूपादित उद्भूतरूपादिकमुत्पद्यते यस्थावयविनः पुनरवयवेऽनुद्भूतरूपादिकं तत्रावयविन्यवयवानुद्भूतरूपादितोऽनुद्भूतरूपादिकमुत्पद्यत इति नियमसम्भवादित्याशङ्कां प्रतिक्षिपति न चेति । पार्थिवपरमाणौ पाकादुद्भूताऽनुद्भूतरूपविशेषसम्भवेऽपि जलादिपरमाणुपु पाकासम्भवान्नित्यान्येव तेद्भूतान्यनुद्भूतानि च रूपादीनीति भूतानि रूपादीनि ते योग्याः परमाणवो येष्वनुभू तानि तेऽयोग्याः परमाणव इत्येवं जलारम्भकपरमाणुभेदाभ्युपगमे गौरवं प्रसज्यते, तथा यैरेव पार्थिव परमाणुभिरुद्भूतरूपादिमद्भिश्चम्पकादिकमुत्पद्यते तैरेव पार्थिवपरमाणुभिः सङ्घटितस्यावयव्यात्मनश्चम्पकभागस्य वाय्वाद्याकृष्टस्य गन्धमात्रमुपलभ्यते न तु रूपादिकमतस्ते परमाणवो नोदभूतरूपादिमन्तस्तदारब्धत्वेन सम्मता भागा अप्यनु
1
भूतरूपादिमन्तो वाय्वाद्याकृष्टा इति तदारब्धत्वमुद्भूतरूपादिमतचम्पकादेर्न स्यादिति निषेधहेतुमुपन्यस्यति योग्यायोग्येति । चम्पका दौ वाय्वाद्याकृष्टसुरभिभागारब्धत्वानुपपत्ताविष्टापतिमाशङ्कय प्रतिक्षिपति - न चेति । निषेधे हेतुमाह एवं सतीति चम्पकादौ वाय्वाद्याकृष्टसुरभिभागाद्यारब्धत्वाभावाभ्युपगम इत्यर्थः । वाय्वादिनाऽऽकृष्टा ये कर्पूरादिभागा उपलभ्यमानगन्धकास्ते यदि न कर्पूराद्यारम्भकास्ते कर्पूराद्यनवयवा एवेति तेषामपगमेऽपि कर्पूरादीनां क्षयो न स्यात्, चात्रेष्ठापत्तिस्तत्क्षयस्यानुभूयमानत्वादित्युद्भूतानुद्भूतरूपादिनियामकतयोद्भूतरूपादिजननानुकूलशक्तिविशेषोऽवश्यमभ्युपगन्तव्य इति
न
"