________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२१ इति युक्तमुत्पश्यामः । किञ्च, तृणादिजन्यवह्नौ वैजात्यस्याऽनानु भविकत्वात् तजन्यतावच्छेदकवैजात्यत्रयादिकल्पनातस्तृणादौ जनकतावच्छेदकैकशक्तिकल्पनैव लघीयसी, तृणनिर्मथनादितो वह्नयनुत्पादस्तु तृणफूत्कारादिसमवधानस्याप्येकशक्तिमत्त्वेन हेतुत्वात् । द्यर्थं शक्तिकल्पनाया आवश्यकत्वमिति परो ब्रूयात् तदा शक्त्यभ्युपगमे युक्त्यन्तरमुपदर्शति- किञ्चति । तृणा-ऽरणि-मणीनामेकैकसद्भावेऽपि वह्निरुपजायते, तत्र सामान्यतो वह्नित्वावच्छिन्नं प्रति तृणत्वादिना तृणादेः कारणता तृणाभावेऽप्यरणेस्तदभावेऽपि मणेवैयुत्पादाद् व्यभिचारेण न सम्भवतीति विजातीयवह्नित्वावच्छिन्नं प्रति तृणत्वेन तृणस्य, विजातीयवह्नित्वावच्छिन्नं प्रति अरणित्वेनारणेः, विजातीयवह्नित्वावच्छिन्नं प्रति मणित्वेन मणेश्च कारणमिति तृणादिजन्यतावच्छेदकतया वह्निगतं वैजात्यत्रयम. भ्युपगम्य कारणतात्रयं कल्पनीयमिति तदपेक्षया लाघवात् तृणाऽ. रणि-मणिषु वह्नयनुकूलशक्तिमत्त्वमभ्युपेत्य तृणा-ऽर्राण-मणीनां वह्नयनुकूलशक्तिमत्त्वेन वह्नित्वाच्छिन्नं प्रत्येकमेव कारणत्वं कल्पनीयम् , न च वह्नौ वैजात्यत्रयमनुभूयते येनानुभवानुरोधेन गुरूभूताऽपि तत्कल्पना युक्ता स्यादित्याह- तृणादिजन्यराविति- आदिपदादरणि-मण्योरुपग्रहः । तज्जाय ावच्छेदकेति- तृणादिजन्यतावच्छेदकेत्यर्थः। 'वैजात्यत्रयादि' इत्यादिपदात् कारणतात्रयपरिग्रहः। ननु तृणादीनां यथैकशक्तिमत्त्वेन कारणत्वं तथैव निर्मन्थनादीनामप्येकशक्तिमत्त्वेन कारणत्वमित्येकशक्तिमतोऽपरशक्तिमदेव सहकारीति निमेन्थनसहकृतात् तृणात् फूत्कारसमवहितादरणेः फूत्कारसमव. हितान्मणेर्वा वह्नयुत्पत्त्यापत्तिरित्यत आह- तृणनिमन्थनादित इतिआदिपदान्मणिफूत्कारादेरुपग्रहः । तृणफूत्काराद्' इत्यादिपदादरणिनिर्मन्थन-मणिसूर्यकिरणप्रतिफलनयोरुपग्रहः, तथा च तृणफूत्कारसमवधानादेरेवैकशक्तिमत्त्वेन कारणत्वम् , न तु तृण-निर्मन्थनादेरिति, ततो वह्नयनुत्पादो युक्त एवेत्यर्थः। शक्तिकल्पने युक्त्य