________________
१२० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् समवधानापगमानन्तरं शक्त्युत्पत्तिस्त्वप्रतिबद्धस्वकारणादेवेत्याकरे व्यवस्थितम् । अप्रतिबद्धत्वं च मण्यादिसमवधानापगमकालविशेषविशिष्टत्वम् , कालविशेषस्य सम्बन्धघटकत्वं च यथा त्वयाऽभावीयविशेषणताविशेषादौ वाच्यं तथाऽस्माभिः कारणपरिणामविशेष दिमित्याह- आकरे व्यवस्थितमिति । न त्वप्रतिबद्धत्व शक्तिकारणे प्रतिबन्धकाभावविशिष्टत्वमेवेति शक्तिकारणतावच्छेदकतया प्रतिबन्धकाभावस्वीकार आवश्यकः, एवंच दाहं प्रति उत्तेजकाभावविशिष्टमण्याद्यभावलक्षणप्रतिबन्धकाभावविशिष्टवढेः कारणत्वमिति कोरणतावच्छे. दकतैव निरुक्ताभावेऽस्त्विति समानमेव, यदि च निरुक्ताभावविशिष्टवढ्नेः कारणत्वं वह्निविशिष्टनिरुक्ताभावस्य वा कारणत्वमिति विनिगमनाविरहाद् गुरुधर्मावच्छिन्नकारणत्वद्वयकल्पनापेक्षया पृथगेव प्रतिवन्धकाभावस्य वनश्च कारणत्वमिति कारणताद्वयं स्यादेवेति विभाव्यते, तदा शक्ति प्रत्यप्रतिबद्धशक्तिकारणस्य कारणत्वपक्षेऽप्युक्तयुक्तया कारणताद्वयं स्यादेवेति तदवस्थं तुल्यत्वमित्यत आहअप्रतिबद्धवं चेति । मण्यादीति-यस्मिन् काले मण्यादिसमवधानापगमस्तत्कालविशेषविशिष्टत्वमप्रतिबद्धत्वम् , तत्र कालविशेषस्य परिचायक एव मण्यादिसमवधानापगमो न तु तत्कोटिप्रविष्ट इति न तस्य कारणतावच्छेदकत्वम् , तत्तत्कालीनतत्तद्भूतलादिकं तत्तदभावानां सम्बन्ध इत्यभ्युपगच्छता वैशेषिकेणाऽप्यभावीयविशेषणताविशेषा. त्मकस्वरूपसम्बन्धस्य घटकत्वं कालविशेषस्योपेयते, तत्र कालविशेषस्य परिचायकमेव घटशून्यत्वादिकम् , तथा शक्तिकारणपरिणामविशेषे घटकत्वं कालविशेषस्य, तत्परिचायक एव मण्यादिसमवधानापगम इत्याह- काल विशेषस्येति । त्वया वैशेषिकेण । अस्माभिः शक्त्यभ्युपगन्तृभिः । यदि च कालविशेषविशिष्टवह्निरेव दाहजनकः , कालविशेषस्य परिचायक एवोत्तजकाभाविशिष्टमण्याद्यभाव इति न वैशेषिकमतेऽपि प्रतिबन्धकाभावस्य कारणत्वम् , नवा दाहा.