________________
अनेकान्तव्यवस्थाप्रकरणम् ] |
[ ११७ भावविशिष्टमण्याद्यभावस्यैव दाहहेतुत्वेन तत्र दाहवारणाच्छक्तिकल्पनावैयर्थ्यम् , न चैवं गौरवम् , तत्रापि तदभावस्य शक्त्यादिहेतुत्वस्वीकाराद् , वस्तुतो रूपादिध्वंसाऽऽत्मकदाहे तद्धेतुत्वे गौररेण योगः। उत्तेजकमण्यादिसमवधाने चन्द्रकान्तमण्यादिसमवधानेऽपि वह्निनादाहोजायत इति मणित्वादिनामण्यादे प्रतिबन्धकत्वं तदभावस्य च दाहं प्रति कारणत्वमिति न सम्भवति, किन्तूत्तेजकाऽभावविशिष्टमणेस्तत्त्वेन प्रतिबन्धकत्वम् ,उत्तेजकाऽभावविशिष्टमणित्वाद्यवच्छिन्न. प्रतियोगिताकाऽभावत्वेन च कारणत्वमित्याशयेन 'उत्तेजकाभावविशिष्ट०' इति मण्यादेविशेषणतयोपात्तम् , उत्तेजकत्वं च प्रकृते प्रतिबन्धकतावच्छेदकीभूताभावप्रतियोगित्वम् । 'मण्याद्यभावस्यैव' इत्येवकारेण न वह्नेर्व्यवच्छेदः, तथा सति वढेरभावेऽपि केवलोक्ताऽभावतो दाहः स्यात् , किन्तु शक्तेरेव व्यवच्छेदः। तत्र मण्यादिसमवहितवह्निस्थले। ननु शक्तिवादिनो दाहं प्रति दाहानुकूलशक्तिमत्त्वेनैकमेव कारणत्वम् , भवतां तु निरुक्ताऽभावत्वेनोक्ताऽभावस्य दाहं प्रति कारणत्वम् , वह्नश्च वह्नित्वेन तं प्रति कारणत्वमिति द्विविधकारणपरिकल्पनमिति गौरवमित्याशङ्कां प्रतिक्षिपति- न चेति। एवं प्रतिबन्धकामावस्य दाहं प्रति कारणत्वाङ्गीकारे। निषेधे हेतुमाहतत्राऽपीति-दाहं प्रति शक्तिमत्त्वेन कारणत्वपक्षेऽपीत्यर्थः, मणिसमवधानकाले शक्तिनाशे मणिसमवधानाऽभावकाले शक्त्युत्पत्तये दाहानुकूलशक्ति प्रति उत्तेजकाऽभावविशिष्टमण्याद्यभावस्य कारणत्वस्वीकारादित्यर्थः। दाहं प्रति उत्तेजकाऽभावविशिष्टमण्याद्यभावस्य न कारणत्वं किन्तु विजातीयवहिं प्रत्येव, तावताऽपि मण्यादियुक्ते दाहाऽसम्भवान्न शक्तिकल्पनाऽऽवश्यकी, दाहं प्रति च विजातीयवह्वेरेव कारणत्वमिति न तं प्रति कारणत्वद्वयकल्पनाप्रयुक्तगौरवमपीत्याह- वस्तुत इति । तद्धेतुत्वे उत्तेजकाऽभावविशिष्टमण्याद्यभावस्य कारणत्वे। तथा दाहं प्रत्येव निरुक्ताऽभावस्य