________________
११६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् अतिरिक्तत्वात् , न च द्रव्य गुणादिषु संख्याप्रतीतौ सम्बन्धांशेऽपि वैलक्षण्यमनुभूयते, येन द्रव्ये समवायेन तत्प्रतीतिः, गुणादौ तु संयुक्त स्वाश्रय]समवायादिनेति वक्तुं शक्यते ।
किञ्च, शक्तिरप्यतिरिच्यते, मण्यादिसमवहितेन वह्निना दाहवारणाय मण्यादिसमवधानेन कुण्ठनीयाया नाश्याया वा दाहानुकूलाया वहिनिष्ठायाः शक्तेः स्वीकार्यत्वात् । न च, उत्तेजकागुणेषु चतुर्विशतित्वप्रतीत्युपपत्तिः, एवं कर्मादावपि पञ्चत्वादिसङ्ख्याप्रतीत्युपपत्तिरित्यत आह- न चेति- अस्य 'अनुभूयते' इत्यनेन सम्बन्धः। येन सम्बन्धांशे दैलक्षण्यानुभवेन । तत्प्रतीति:- सङ्ख्याप्रतीतिः। 'समवायादिना' इत्यादिपदात् स्वाश्रयसमवेतसमवाय. स्वाश्रयविशेषणत्वादेरुपग्रहः । वस्तुतः परम्परासम्बन्धेन तत्प्रतीत्युपपादने द्रव्यगतचतुर्विशतित्ववदन्यसङ्ख्याया अपि गुणे, कर्मणि पञ्चत्वसङ्ख्यावदन्यसङ्ख्याया अपि, जात्यादावप्यन्यसङ्ख्यायाश्च सम्भवेन 'चतुर्विशतिरेव' इत्यादावेवकारेणान्यसङ्ख्याव्यवच्छेदो न भवेदित्यपि बोध्यम।
एवं द्रव्यादिभ्योऽतिरिक्तायाः शक्ते.रपि सम्भवात् षट्पदार्थविभजनमनुपपन्नमित्याह- किञ्चति । शतिरपि- इत्यपिना सङ्ख्यातिरिक्तत्वस्य समुञ्चयः । यदि दाहं प्रति वर्षोंर्वह्नित्वेन कारणत्वं तदा मणिसमवहितोऽपि वलि वह्नरेवेति ततोऽपि दाहः स्याद् , अतो दाहं प्रति वह्वेर्दाहानुकूलशक्तिमत्त्वेन कारणत्वमवश्यमभ्युपेयम् , एवं च मणिसम. वधाने साशक्तिः कुण्ठिता भवति, ततो न सा दाहानुकूला, अथवा विनश्यत्येवेति दाहानुकूलशक्तिमद्वमणिसमवधानकालेऽभावान्न दाहः, मणिसमवधानाऽभावे पुनाहानुकूलशक्तिरकुण्ठिता भवति, जायते वेति दाहानुकूल शक्तिमद्वले सत्त्वाद् दाह उपजायत इति शक्तिपदार्थसिद्धिरित्याह- मण्यादि समवहितेनेति- आदिपदान्मन्त्रौषधादीनां ग्रहणम् । अत्र नैयायिकाऽऽशकामुत्थाप्य प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्युत्त