________________
अनेकान्तव्यवस्थाप्रकरणम् ] नित्यद्रव्यवृत्तयोऽनन्ता एव, समवायस्त्वेक एव, इत्यादि निरपेक्षतया सामान्य-विशेषाभ्यां बहुधा अपश्चितम् , तच्चायुक्तम्'नव द्रव्याणि, चतुर्विंशतिर्गुणाः' इत्यादिस्ववचनानुरंधेनैव संख्याया न्यूनदेशवृत्तित्वाद् घटत्व-पटत्वादि जातिरपरसामान्यम् , यञ्च किञ्चिजात्यपेक्षयाऽधिकदेशवृत्ति किञ्चिजात्यपेक्षया च न्यूनदेशवृत्ति तञ्च परापर सामान्यनुबाले, यथा-द्रव्यत्वादि सामान्यम् , तद्धि पृथिवीत्यादिजात्यपेक्षयाऽधिकदेशवृत्ति सत्ताऽपेक्षया च न्यूनदेशवृत्ति भवतीति, ए. पृथिवीत्वादिकमपि घटत्वाधपेक्षयाऽधिकदेशवृत्ति. त्वाद ब्यत्वाद्यपेक्षयाऽल्पदेशवृत्तित्वात् पराऽपरसामान्यमिति ।
निशेषा इति-जातिभिवत्वे सति नित्यद्रव्यवृत्तित्वे सति स्वतो व्यावसाय विशेषस्थ लक्षणम् ।
समवा। इति- प्रतियोग्यनुयोगिभिन्नत्वे सति नित्यसम्बन्धत्वं समवायस्य लक्षणम् ।
एतावता शेषिकमतमुवण्य प्रतिक्षिपति- तञ्च युक्तमिति-वैशेषिकमतं चायुक्तमित्यर्थः। अयुक्तत्वे हेतुमाह- ना द्रव्याणीति-'नेवैव' इत्यनेन द्रव्येषु नवत्वसंख्यायाः, 'चतुर्विशतिरेव' इत्यनेन गुणेषु चतुर्विशतित्वसङ्ख्यायाः, 'पञ्चविधमेव' इत्यनेन कर्मसु पञ्चत्वसङ्ख्यायाः, 'त्रिभित्रम्' इत्यनेन सामान्ये चित्यसङ्ख्यायाः, 'अनन्ताः' इत्यनेन विशेषेवनन्तत्वसङ्ख्यायाः, 'एक एव' इत्यनेन समवाये एकत्वसधायाः प्रतिपादनेन स्वयमेव देशेषिकेन पपदार्थवृत्तितया सङ्खचाया उपगतत्वेन द्रव्यादयो न षट्पदार्थवृत्तय इति षट्पदाथैवनन्तभूता सङ्ख्याऽतिरिक्ततयाऽभ्युपगतैवेति षडेव पदार्था इति पदार्थविभजनमयुक्तमित्यर्थः। .
ननु द्रव्यगतैव गुणस्वरूपा सङ्ख्या द्रव्ये समवायसम्बन्धेन प्रतीयते, गुणादौ तु स्वसभवायिसमवेतत्वसम्बन्धेन प्रतीयते, घटपटादयस्तु चतुर्विंशतिरपीति घट-घटादिगतचतुर्विंशतित्वमादाय