________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ११३
ज्ञानवत्वं जीवस्य, नित्यज्ञानवत्त्वमीश्वरस्य लक्षणम् , जीवास्त्वनेके विभवश्च, ईश्वरस्त्वेको विभुर्जगत्कर्ता च । ज्ञानादिगुण साक्षात्कारकरणेन्द्रियत्वं मनसो लक्षणम् , आत्मभिन्नत्वे सति ज्ञानाद्यसमवायिकारणसंयोगाश्रयत्वमपि तल्लक्षणम्, मन सामनेकत्वात् तत्र मनस्त्वजातिसम्भवेन तादृशजातिमत्त्वमपि तल्लक्षणं ज्ञेयम् ॥
गुणाः गुणत्वजातिमन्तः, द्रव्यकर्मभिन्ने सामान्यवति या कारणता सा किञ्चिद्धर्मावच्छिन्ना कारणतात्वादित्यनुमानेन गुणत्वजातिसिद्धिः। द्रव्यकर्मभिन्नत्वे सति सामान्यवत्वं द्रव्यत्वव्यापकतावच्छेदक लत्ताभिन्नजातिमत्त्रं वा गुणस्य लक्षणम्। रूपादय इति- "रूप-रख-गन्ध स्पर्शाः सङ्ख्या परिमाणानि पृथक्त्वं संयोगविभागौ परत्वाऽपरत्वे बुद्धयः सुख-दुःखे इच्छाड्रेषौ प्रयत्नाश्च गुणाः" [वशेषिकदर्शनोपस्कार ] इति सूत्रे कण्ठतः सप्तदश चशब्देन च गुरुत्व-द्रव्यत्व-स्नेह-संस्कार-धर्माऽधर्म-शब्दाः सप्त दर्शिता इति मिलित्वा चतुर्विशतिर्गुणाः, एवकारेण तदतिरिक्तगुणव्यवच्छेदः । तत्र चक्षुर्मात्रग्राह्यगुणत्वं रूपस्य लक्षणम् । रसनाग्राह्यगुणत्वं रसस्य लक्षणम् । घ्राणग्राह्यगुणत्वं गन्धस्य लक्षणम्। त्वगिन्द्रियमात्रग्राह्यगुणत्वं स्पर्शस्य लक्षणम्। गणनव्यवहाराऽसाधारणकारणगुणत्वं सङ्ख्याया लक्षणम् । मानव्यवहाराऽसाधारणकारणगुणत्वं परिमाणस्य लक्षणम् । पृथग्व्यवहाराऽसाधारणकारणगुणत्वं पृथक्त्वस्य लक्षणम् । संयुक्तव्यवहाराऽसाधारणकारणगुणत्वं संयोगस्य लक्षणम्। विभक्तव्यवहाराऽसाधारणकारणगुणत्वं विभागस्य लक्षणम्। परापरव्यवहाराऽसाधारणकारणगुणत्वे परत्वाऽपरत्वयोर्लक्षणे । सर्वव्यवहाराऽसाधारणकारणगुणत्वं बुद्धेर्लक्षणम्। अन्येच्छानधीनेच्छाविषयत्वं सुखस्य लक्षणम्। अन्यद्वेषानधीनद्वेषविषयत्वं दुःखस्य लक्षणम् । कामनास्वरूपत्वमिच्छाया लक्षणम् । क्रोधस्वरूपत्वं द्वेषस्य, लक्षणम् । प्रवृत्ति-निवृत्ति-जीवनयोनियत्नान्यतमत्वं यत्नस्य लक्षणम्। तत्र चिकीर्षाद्वारेष्टसाधनताज्ञानजन्ययत्नत्वं प्रवृत्तेर्लक्षणम् , द्वेषद्वारा द्विष्ट