________________
११२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
तद्भस्मनि गन्धोपलब्धिर्न स्यात् , भस्मनो हि पाषाणध्वंसजन्यत्वात् पाषाणोपादानोपादेयत्वम् , यद् द्रव्यं यद्रव्यध्वंसजन्यं तत् तदुपादानोपादेयमिति व्याप्तेः, दृष्टं च महापटध्वंसजन्ये खण्डपटे महापटोपादानोपादेयत्वमिति । स्नेहवत्त्वं जलस्य लक्षणम् , जलत्वजातिमत्त्वं वा, जन्यस्नेहसमवायिकारणतावच्छेदकतया जन्यजलत्वसिद्धिः, तदवच्छिन्नसमवायिकारणतावच्छेदकतया नित्य-जन्यजलसाधारणजलत्वजातिर्सािद्धः । उष्णस्पर्शवत्वं तेजस्त्वजातिमत्त्वं घा तेजसो लक्षणम् , अत्रापि जन्योष्णस्पर्शसमवायिकारणतावच्छेदकतया जन्यतेजस्त्वस्य तद्वच्छिन्नसमवायिकारणतावच्छेदकतया जन्य-नित्यतेजस्साधारणतेजस्त्वस्य सिद्धिः । अपाकजानुष्णाशीतस्पर्शवत्वं वायुत्वजातिमत्त्वं वा वायोर्लक्षणम् , अत्रापि जन्या:पाकजानुष्णाशीतस्पर्शसमवायिकारणतावच्छेदकतया जन्यवायुत्वस्य तदवच्छिन्नसमवायिकारणतावच्छेदकतया जन्य-नित्यवायुसाधारणवायुत्वस्य सिद्धिः। शब्दवत्त्वमाकाशस्य लक्षणम् , तस्यैकत्वाद् व्यक्तत्यमेदस्य जातिबाधकतया तत्राकाशत्वं न जातिः । मूभिन्नत्वे सति कालिकपरत्वाऽपरत्वाऽसमवायिकारणसंयोगाश्रयत्वं कालस्य लक्षणम् , क्षण-लव-मासादिव्यवहारस्योपाधिकत्वात् कालस्त्वेक एवेत्येकव्यक्तिवृत्तित्वात् कालत्वं न जातिः, कालिकसम्बन्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपित-तादात्म्यसम्बन्धावच्छिन्नकारणताशालित्वं वा कालस्य लक्षणम् , कालिकसम्बन्धेन जन्यमानं प्रत्येव तादात्म्यसम्बन्धेन कालस्य कारणत्वादुक्तलक्षणं तत्र समन्वेति । मूर्तभिन्नत्वे सति दैशिकपरत्वाऽपरत्वाऽसमवायिकारणसंयोगाश्रयत्वं दिशो लक्षणम् , 'प्राची प्रतीची' इत्यादिदशदिग्व्यवहारस्योपाधिभेदत एवोपपत्तेर्दिश एकत्वेन तत्रैकव्यक्तिवृत्तित्वाद् दिक्त्वं न जातिः, दिक्कृतविशेषणतासम्बन्धेन जगत एव दिशि सत्त्वेन दिक्कृतविशेषणतासम्बन्धेन जगदाधारत्वमपि दिशो लक्षण सम्भवतीति । शानवत्त्वमात्मसामान्यलक्षणम् , जन्य