________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १११ दीनि नवैव, गुणा रूपादयश्चतुर्विंशतिरेव, कर्म उत्क्षेपणादि पञ्चकारणत्वम्, कार्यत्व-कारणत्वयोश्च निरूप्य-निरूपकभावसम्बन्धः, अन्यूनाऽनतिप्रसक्तधर्मस्यैव चाऽवच्छेदकत्वम् , तथा च समवायसम्बन्धावच्छिन्नकार्यत्वाच्छिन्नकार्यतानिरूपित-तादात्म्यसम्बन्धावच्छिन्नद्रव्यनिष्ठकारणता किश्चिद्धर्मावच्छिन्ना कारणतात्वात् , या या कारणता सा सा किश्चिद्धर्मावच्छिन्ना, यथा समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नघटनिष्ठकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकपालनिष्ठकारणता कपालत्वावच्छिन्नेति, अनेन निरुक्तकारणतायां सामान्यतः किञ्चिद्धर्मावच्छिन्नत्वे सिद्धे, सा कारणता न पृथिवीत्वावच्छिन्ना अधिकदेशवृत्तित्वात् , सा कारणता न सत्त्वाद्यवच्छिन्ना न्यूनदेशवृत्तित्वाद् , इतीतरबाधकानुमानेन द्रव्यत्वातिरिक्तधर्मावच्छिन्नत्वे व्यवच्छिन्ने सा कारणता द्रव्यत्वापच्छिन्ना द्रव्यत्वेतरधर्मानवच्छिन्नत्वे सति सावच्छिन्नत्वात् , यन्नैवं तन्नैवं यथा-घटादिकारणतेति केवलव्यतिरेकिपर्यवसितेन परिशेषानुमानेन निरुक्तकारणतावच्छेदकतया द्रव्यत्वजातिः सिध्यति, अनयैव रीत्या संयोगसमवायिकारणतावच्छेदकतया विभागसमवायिकारणतावच्छेदकतया च द्रव्यत्वजातिसिद्धिया।
_ 'पृथिव्यादीनि' इत्यादिपदाद् जल-तेजो-वाय्वाकाश-काल-दिगात्ममनसां ग्रहणम् । 'नवैव' इत्येवकारेण तमस्सुवर्णादीनां द्रव्यान्तरस्वस्य व्यवच्छेदः, तत्र तमस आवश्यकतेजोऽभावरूपत्वेन द्रव्यत्वमेव नास्ति, सुवर्णस्य तेजसि अन्तर्भावः, तत्रानुमानं प्रमाणम्सुवर्ण तैजसम् असति प्रतिबन्धकेऽत्यन्तानलसंयोगेऽप्यनुच्छिद्यमानजन्यद्रवत्वात् , यन्नैवं तन्नंव यथा-घृतादीति । तत्र गन्धवत्त्वं पृथिव्या लक्षणम् , पृथिवीत्वजातिमत्त्वं वा, पृथिवीत्वजातिस्तु गन्धसमधायिकारणतावच्छेदकतया सिध्यति, पाषाणादावपि गन्धवत्त्वमस्त्येव, अनुपलब्धिस्तु तत्र गन्धस्यानुत्कटत्वेनाप्युपपद्यते, अन्यथा