________________
११० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् ___ एवं मूतैरेव मूर्तमारभ्यते, अमूर्तेरमूर्तम् , मूरमूर्तम् , अमूर्तेभूतम् इत्याद्यनेकधा निगमार्थः संमतिवृत्तौ व्यवस्थितः ॥
एतन्नयमालम्ब्य वैशेषिकदर्शनं प्रवृत्तम् , तन्मते-'द्रव्य-गुण-कर्मसामान्य विशेष-समवायाख्या: षडेव पदार्था' तत्र द्रव्याणि पृथिव्यारूपादिमद्भिः परमाण्वादिभिरेव, मृतं द्वयणुकादिकम् , आरभ्यते उत्पद्यते । अमूर्तेः रूपादिविकलै रूपादिभिः, अमूर्त रूपादिविकलं रूपादिकम् , 'आरभ्यते' इत्यनुवर्तते । मूतः रूपादिमद्भिद्रव्यैः, अमून गुण-कर्मादिकम् , उत्पद्यते । असूनॆः कपालसंयोगादिभिः, मूर्त घटादिकम् , उत्पद्यते । अनेकैरवयवैरेकमवयवि द्रव्यम् , अनेकैरवयविगुणैरेकोऽवयविगुणः, अनेकैर्मूर्त्तद्रव्यैस्त्रित्वादिसङ्ख्यालक्षणमेकममूर्तम् , सहस्रतन्तुकपटस्थलेऽनेकैस्तन्तुसंयोगैरेकं मूर्त पटात्मकद्रव्यमुत्पद्यत इत्येवमनेकप्रकारेण निगमार्थों नैगमनयविषय इत्यर्थः । उक्ताऽनेकाऽभ्युपगमवादपरिज्ञानाय सम्मतिवृत्तिरवलोकनीयेत्याशयेनाह- सम्मतिवृत्ती व्यवस्थित इति । एतन्नयमवलम्ब्य नैगमनयमवलम्ब्य । तन्मते वैशेषिकदर्शने । कारणाभावात् कार्याभाव इत्यादीनां दर्शनादभावोऽपि सप्तमः पदार्थों वैशेषिकाऽभ्युपगतोऽस्ति, ततश्च ‘पदार्थाः' इत्यस्य भावपदार्था इत्यर्थः, तेन 'षडेव' इत्येवकारेणातिरिक्तस्य भावपदार्थस्यैव व्यवच्छेद इति बोध्यम्। तत्र षट्सु भावपदार्थेषु । द्रव्याणीति-द्रव्यत्वजातिमन्तीत्यर्थः, घृतादौ 'द्रव्यं द्रव्यम्' इत्युनुगतप्रत्यक्षाऽऽत्मकप्रतीतेरभावात् प्रत्यक्ष. प्रमाणस्य द्रव्यत्वेऽभावेऽप्यनुमानं तत्र प्रमाणम् , तथाहि-समवायसम्बन्धेन कार्यमानं द्रव्य एवोत्पद्यत इति समवायसम्बन्धेन कार्य प्रति तादात्म्यसम्बन्धेन द्रव्यं कारणमिति, कार्यत्वं कारणत्वं च सखण्डोपाधिरूपत्वानियमतः किश्चिद्धर्मावच्छिन्नम् , तथा येन सम्बन्धेन कार्यमुत्पद्यते तत्सम्बन्धावच्छिन्नं कार्यत्वं भवति, कार्याधिकरणे येन सम्बन्धेन वतमान सत् कारणं तत्सम्बन्धावच्छिन्नं