________________
अनेकान्तव्यवस्थाप्रकरणम् ]
क्षत्वानपेक्षत्वाभ्युपगमाद् भेदव्यवस्थाऽभ्युपगतैव ॥
>
तथा कारणं नित्यं कार्यमनित्यमित्यपि द्वैतं कैश्चिदभ्युपगतम् : तत्रापि काय स्वरूपं नियमेन त्यजति नवा इत्ययमपि भेदाभ्यु
पगमः ।
[ १०९
वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ।
केनेदं रचितं तस्मात् स्वभावात् तद्व्यवस्थितिः " ॥ इति कालवादश्च - वासन्तिको वसन्तर्तावेवोपजायते, ग्रैष्मो ग्रीष्मविवोपजायत इत्येवं प्रतिनियतकालप्रभवत्वाऽन्यथाऽनुपपत्त्या यद् यद् यदा यदा भवति तत्तद्वस्तुनः स स काल एव कारणमिति, यदुक्तम्
"कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः " ॥ इत्यादि । एवं यदृच्छादिवादा अपि समयसमुद्रप्रसिद्धा ज्ञेयाः । तेष्वपि स्वभावादिवादेष्वपि । सापेक्षत्वेति - कारणान्तरसापेक्षत्वाऽनपेक्षत्वाऽभ्युपगमादित्यर्थः । कारणमिति - यद्यपि नयायिकादयोऽपि परमाण्वात्मादिलक्षणं कारणं नित्यम्, द्वयणुकज्ञानादिलक्षणं कार्यमनित्यमित्यभ्युपगच्छन्ति, तथापि नैतद् विशेषप्रतिपत्त्याधायकं मतान्तराणामपि बहूनामेतादृशानामेव सम्भवात् किन्तु यन्मते एकं ब्रह्मैवाऽशेषस्य जगतोऽनित्यस्य कारणम्, प्रकृतिरेवकजातीया नित्यं कारणम्, ध्वंसोऽपि किञ्चित्कार्यायत्तस्वभावोऽनित्य एवेत्येवमुपगमः, तद् द्वैतमतमनेनाविष्कृतम्, तदेतन्मतं केषामिति न ज्ञायते । तत्रापि अनित्यं कार्यमित्यभ्युपगमेऽपि । कार्ये स्वरूपं नियमेन त्यजति कार्यसन्ततावेककार्यानन्तरं द्वितीयस्मिन् कार्ये समुत्पन्नं प्रथमं कार्य स्वस्वरूपं सर्वथा परित्यजति, नवा केनचित् स्वरूपेणोत्तरकार्येऽनुगच्छत्यपीति न स्वरूपं नियमेन परित्यजतीत्येतादृशोऽपि भेदाऽभ्युपगमो नैगमनयविशेष एवेत्यर्थः । मूर्तेरेवेति- मूर्ते
"