________________
१०८ ]
[ तत्वघोधिनीधिवृतिविभूषितम् अन्यैस्तु परमाणुप्रभवमभ्युपगतं जगत् , तत्रापि सेश्वर-निरीश्वरभेदाद् भेदोऽभ्युपगत एव, सेश्वरपक्षेऽपि स्वकृतकर्मसापेक्षत्वाऽनपेक्षत्वाभ्यां तदवस्थ एव भेदाभ्युपगमः ।।
कैश्चित् स्वभाव-काल-यदृच्छादिवादाः समाश्रिताः, तेष्वपि सापेमिति-प्रधानं प्रकृतिः, सत्त्व-रजस्तमसां साम्याऽवस्था, तत् कारणं यस्य तत् तथेत्यर्थः। तत्रापि जगतः प्रधानकारणकत्वेऽपि । कैश्चित् पतञ्जलि-कपिलाऽनुयायिभिः । अन्यैस्तु कणभक्षाऽक्षपादानुयायिभिः पुनः । परमाणु प्रभव मिति-परमाणुभ्यः प्रभव उत्पत्तिर्यस्य तत् तथा, साक्षात् परम्परया वा परमाणुकारणकं जगदित्यर्थः । तत्रापि जगतः परमाणुकारणकत्वाऽभ्युपगमेऽपि । सेश्वरक्षेऽपोति-ईश्वरः परमाणूनुपादाय जगद् विधातीति पक्षेऽपीत्यर्थः । स्वकृतेतिईश्वरः साक्षात् परम्परया वा यदात्मोपभोगसाधनं यत् कायं जनयति तत्र तदात्मकृतकर्मसापेक्षस्तजनयति, ईश्वरः प्राण्यदृष्टापेक्षो यदि कार्य जनयेत् तदा कर्मपरतन्त्रत्वात्. तस्य स्वातन्त्र्यहान्येश्वरत्वमेव न स्यादिति प्राणिकृतकर्माऽनपेक्ष एधेश्वरो जगद् विदधाति, अथवेश्वरो जीवेषु तत्तत्फलोपभोगसमर्थमदृष्टमुत्पाद्य तत्तत्सहकृतस्तत्तदुपभोगानुकूलकार्यं जनयति, स्वतन्त्रत्वाद् वेश्वरो विलक्षणाऽदृष्टमजनयित्वैव कार्यविशेषमुत्पादयतीत्येवं स्वकृतकर्मसापेक्षत्वानपेक्षत्वाभ्यां पूर्ववदेव मेदाऽभ्युपगमः। 'कश्चिद्' इत्यस्य 'समाश्रिताः' इत्यनेनाऽन्वयः। स्वभावेति-स्वभाववादः, कालबादः, यदृच्छावादः, आदिपदान्नियतिवादादीनामुपग्रहः । स्वभाववादश्च-यस्य यः स्वभावः स तस्यैव नान्यस्येति प्रतिनियतस्वभावान्यथाऽनुपपत्त्या स्वभावादेव कार्य प्रतिनियतस्वभावमुपजायत इति नान्यत् किञ्चित् कस्यचित् कारणम् , यदुक्तम्
"नित्यसत्त्वा भवन्त्येके नित्याऽसत्त्वाश्च केचन । विचित्रा केचिदित्यत्र तत्स्वभावो नियामकः ॥