________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ १०७ .. पुरुषोऽप्येकत्व-नानात्वभेदात् कैश्चिदभ्युपगतोद्वेधा, नानात्वेऽपि तस्य कर्तृत्वाऽकर्तृत्वभेदः परराश्रितः, कर्तृत्वेऽपि सर्वगतेतरभेदः, असर्वगतत्वेऽपि शरीरव्या यव्यापिभ्यां भेदः, व्यापित्वेऽपि मूर्तेतरविकल्पाद् भेद एव ।। ___ अपरेस्तु प्रधानकारणकं जगदभ्युपगतम् , तत्रापि कैश्चित् सेश्वरनिरीश्वरभेदोऽभ्युपगतः । सोऽर्थ संसारवृक्षोऽव्ययोऽनाद्यनन्तदेहादिसन्तानाऽऽश्रयो हि सुप्रसिद्धस्तमव्ययम् । तस्यैव संसारवृक्षस्येदमन्यद विशेषणम्-छन्दांसि छादनाद् ऋग्यजुःसामलक्षणानि, यस्य संसारवृक्षस्य, पानि पर्णानीव, यथा-वृक्षस्य परिरक्षणार्थानि पर्णानि तथा वेदाः संसारवृक्षपरिरक्षणार्थाः धर्माऽधर्मत तुफलप्रकाशनार्थत्वात् । यथाव्याख्यातं संसारवृक्षं समूलं यस्तं वेद स वेदवित्-वेदार्थविदित्यर्थः । 'न हि संसारवृक्षादस्मात् समूलाज्ज्ञयोऽन्याऽणुमात्रोऽप्यवशिष्टोऽस्ति, अत: सर्वज्ञः स यो वेदार्थादिति समूलवृक्षवान स्तौति ॥” इति ।
एतन्मते एक एव ब्रह्मात्मा पुरुषो जगद्रूपेण परिणत इति ब्रह्मणो विवर्ताऽयं संसारो ब्रह्मपुरुषाऽऽत्मक एवेति ॥ . नैगमस्याऽभिप्रायान्तरमाह-पुरुषोऽपाति-ईश्वरलक्षणः पुरुष एका, जीवलक्षणः पुरुषो नानेत्येवं पुरुषस्यैकत्वं नानात्वं चेति केचित् प्रतिपन्नाः, तन्मते पुरुष एको नाना चेति द्विविधः। अभिप्रायान्तरं दर्शयति-नानात्वेऽपीति । तस्य पुरुषस्य । कर्तृत्वाऽकर्तृत्वभेदः ईश्वरो न कर्ता, जीवस्तु कर्ता । कर्तृत्वेऽपाति-आत्मनः कर्तृत्वेऽपि कस्यचिन्मते सर्वगतत्वं कस्यचिन्मते त्वसर्वगतत्वमित्येवं भेदः । असवगतत्वेऽपीति-असर्वगतोऽप्यात्मा केनचिद् देहव्यापी स्वीक्रियते, केनचिदणुपरिमाणः। व्यापित्वेऽवीति-आत्मा शरीरव्यापकोऽपि केनचिन्मूर्तः केनचिदमूर्तः स्वीकृतः, इत्येवं पुरुषमधिकृत्य बहवो नैगमाभिप्रायाः। अन्येऽपि नैगमाभिप्रायाः, तान् दर्शयति-अपरेस्त्विति । प्रधान कारणक