________________
१०६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् "ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्" ॥
-[गीता-अ० १५, श्लो० १] “ यस्मान्मदधीनं कर्मिणां कर्मफलं ज्ञानिनां च शानफलमतो भक्तियोगेन मां ये सेवन्ते ते मत्प्रसादाज्ञानप्रातिक्रमेण गुणाऽतीता मोक्षं गच्छन्ति, किमु वक्तव्यमात्मनस्तत्त्वमेव सम्यग्विजानन्त इत्यतो भगवान् अर्जुनेनाऽपृष्ट एवाऽऽत्मनस्तत्त्वं विवक्षुरुषाचऊर्ध्वमूलमित्यादिना, तत्र तावद् वृक्षरूपककल्पनया वैराग्यहेतोः संसारस्वरूपं वर्णयति, विरक्तस्य हि संसाराद् भगवत्तत्त्वज्ञानेsधिकारो नान्यस्येति । ऊर्ध्वमूलमिति-ऊर्ध्वमूलं कालतः सूक्ष्मत्वात् कारणत्वान्नित्यत्वान्महत्त्वाच्चोर्ध्वमुच्यते ब्रह्माऽव्यक्तं मायाशक्तिमत् , तन्मूलमस्येति सोऽयं संसारवृक्ष ऊर्ध्वमूलः, श्रुतेश्च "ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः" [कठ० ६, १] इति । पुराणे च
"अन्यक्तमूलप्रभवस्तस्यैवाऽनुग्रहोत्थितः । बुद्धिस्कन्धमयश्चव इन्द्रियान्तरकोटरः ॥ १ ॥ महाभूतविशाखश्च विषयः पत्रवांस्तथा । धर्माऽधर्मसुपुष्पश्च सुखदुःखफलोदयः ॥ २ ॥ आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः । एतद् ब्रह्मवनं चैव ब्रह्माचरति नित्यशः ॥ ३ ॥ एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमाऽसिना । ततश्चात्मरतिं प्राप्य यस्मान्नाऽऽवर्तते पुनः" ॥ ४ ॥
[म० भा० अश्व०४७, १२, १५ ] इत्यादि । तमूर्ध्वमूलं संसारं मायामयं वृक्षम्, अधःशाखं महदहङ्कार तन्मात्रादयः शाखा इवास्याधो भवन्तीति सोऽयमधःशाखस्तमधशाखम् । न श्वोऽपि स्थातेत्यश्वत्थस्त क्षणप्रध्वंसिनमश्वत्थम् , प्राहुः कथयन्ति, अव्ययम् संसारमायाया अनादिकालप्रवृत्तत्वात्