________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १०५ सङ्कीर्णा सत्तेति यावत् , तत्र, पुनस्तस्य-द्रव्यास्तिकस्य, यो वचनार्थनिश्चयः-निवृत्ति-प्रवृत्त्युपेक्षालक्षणव्यवहारसम्पादकशब्दार्थनिर्णय :, स व्यवहारः । प्रतिरूपं-सङ्कीर्णा सत्ता, पुनःशब्देन प्रकृतिः स्मायते, वचन-व्यवहारसम्पादकः शब्दः, 'घटः' इति विभक्तरूपतया 'अस्ति' इत्यविभक्तात्मतया प्रतीयमानस्तदर्थः, तस्य निर्गतः-पृथग्भूतः, चयः-परिच्छेदः, तथा च तस्य द्रव्यार्थिकस्य सङ्कीर्णसत्ता प्रकृतिर्वचनार्थनिश्चयो व्यवहारः" इति टीकानुगतार्थः ॥
अत्र नैगमो न प्रथगू जगृहे सङ्ग्रहव्यवहारविषयातिरिक्ततद्विपयासिद्धेरिति । येषां तु मते पृथक् नैगमनयो विद्यते ते प्रतिपत्मेदान्नाना तदभिप्राय वर्णयन्ति । यतः केचिदाहुः-"पुरुष एवेदं सर्व." [पुरुषसूक्तान्तर्गतोऽयं मन्त्रः] इत्यादि, यदाश्रित्योक्तम्तस्याऽसन्दिग्धस्वरूपप्रतिपत्तये त्वाह-घटादिनेति । तत्र घटादिनाऽशुद्धद्रव्येण सङ्कीर्णायां सत्तायाम् । उत्तरार्द्धस्य व्याख्यान्तरमाहप्रतिरूपमिति-सङ्कीर्णा सत्ता' इति तदर्थः । 'वचना-ऽर्थ-निश्चयः' इत्यत्र त्रयाणां वचना-ऽर्थ-निश्चयानां क्रमेण स्वरूपमुपदर्शयति- वचनमिति -अस्य व्यवहारसम्पादकः शब्द इत्यर्थः। घट इत्यादिना तदर्थस्वरूपकथनम् । तस्येत्यादिना निश्चयस्वरूपनिर्वचनम् ॥
एवं सति यत्स्वरूपो व्यवहारः पर्यवसितस्तमाह-तथा चेति । अत्र उक्तगाथायाम् । नैगमस्य पृथक्तयाऽग्रहणे हेतुमाह-सङ्ग्रहेति । तद्विषयेति-नैगमविषयेत्यर्थः । ते सङ्गह-व्यवहारभिन्नतया नैगमनयाऽभ्युपगन्तारः । तदभिप्रायं नैगमनयाऽभिप्रायम् । अभिप्रायमेदमेव दर्शयति यत इति । 'इत्यादि' इत्यादिपदात् “यद् भूतं यच्च भाव्यम्” इत्यादेरुपग्रहः । यदाश्रित्य यन्मतमवलम्ब्य । उक्तं श्रीकृष्णेनाऽर्जुनं प्रति गीतायां पञ्चदशाध्याये उक्तम् । ऊर्ध्वमूलमितिअस्य विवरणात्मकं शाङ्करभाष्यमुपदय॑ते