________________
[ तत्त्वबोधिनीविवृतिविभूषितम् एव पर्यवस्यतीति न पर्यायार्थत्वं तस्य, अत एव सामान्यविशेषविषयभेदेन सङ्ग्रह-व्यवहारयोरेवान्तर्भावेन शुद्धाशुद्धद्रव्यास्तिकोsयमिष्यत इति
"दव्वट्ठियनयपयडी सुद्धा संगहपरूवणाविसओ।
पडिरूवे पुण वयणत्थणिच्छओ तस्स ववहारो" ॥ त्ति सम्मतिगाथायां [ प्रथमकाण्डे-गा० ४] पृथग नोदाहृतः ।
अस्या अर्थः-"द्रव्यास्तिकनयस्य, प्रकृतिः-स्वभावः, शुद्धाविशेषाऽसंस्पर्शवती, संग्रहस्य अभेदग्राहिनयस्य, या प्ररूपणा-प्ररूप्यतेऽनयेति कृत्वाऽभिधायकपदसंहतिः, तस्या विषयः, उपचारात तदेकविषयेत्यर्थः । प्रतिरूपं प्रतिबिम्बम् , घटादिनाऽशुद्धद्रव्येण द्रव्याभ्युपगन्तुश्चास्य व्यवहारेऽन्तर्भाव इति कृत्वा शुद्धाऽशुद्धद्रव्यास्तिकत्वमस्येत्याह- अत एवेति-शुद्धाऽशुद्धद्रव्यविषयकत्वादेवेत्यर्थः। अयं नैगमः।
___यत एव सङ्गह-व्यवहारयोरेव नैगमस्यान्तर्भावस्तत एव सम्मतौ नैगमनयो न गणित इति सम्मतिगाथामुल्लिख्य दर्शयतिदव्वट्टिय० इति-"द्रव्यास्तिकनयप्रकृतिः शुद्धा सहप्ररूपणाविषयः । प्रतिरूपे पुनर्वचनार्थनिश्चयस्तस्य व्यवहारः" ॥ इति संस्कृतम् । अस्यां गाथायां द्वावेव सङ्ग्रह-व्यवहारौ द्रव्यार्थिकतयोदाहृतौ, ताभ्यामन्यस्तु नैगमो द्रव्यार्थिकतया नोदाहृत इत्यर्थः । अस्याः "दव्वट्ठिय०" इति सम्मतिगाथायाः । 'प्रकृतिः' इत्यस्य 'स्वभावः' इत्यर्थः। 'शुद्धा' इत्यस्य 'विशेषाऽसंस्पर्शवती' इत्यर्थः । तस्याः अभेदग्राहिनयाभिधायकपदसंहतेः । तदेकविषया अभेदग्राहिसंग्रहनयाऽभिधायकपदसंहत्येकविषया द्रव्यास्तिकनयप्रकृतिः। तथा च शुद्धद्रव्यार्थिकनयः साह एवेति भावः । 'प्रतिरूपम्' इत्यस्य 'प्रतिबिम्बम्' इत्यर्थः।