________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १०३ वस्तुतः क्षणिकत्वादिविशेषणशुद्धपर्यायं नैगमो नाभ्युपगच्छत्येव, किञ्चित्कालस्थाय्यशुद्धतदभ्युपगमस्तु सत्तामहासामान्यरूपद्रव्यांशस्य घटादिसत्तारूपविशेषप्रस्तारमूलतयाऽशुद्धद्रव्याभ्युपगम
शुद्धपर्यायाऽभ्युपगन्तृत्वमेव पर्यायार्थिकत्वे तन्त्रम्, शुद्धपर्यायश्च आणिकत्वाऽऽदिविशेषणविशिष्ट एव, तादृशपर्यायाऽभ्युपगन्तृत्वाऽ. भावान्न नैगमस्य पर्यायार्थिकत्वमित्याह- वस्तुत इति। किश्चित्कालस्थायित्वमेव पर्यायेऽशुद्धत्वमिति तद्विशिष्टपर्यायाऽभ्युपगमस्त्वशुद्धद्रव्याऽभ्युपगम एवेति तथाऽभ्युपगमपरस्य नैगमस्य द्रव्यार्थिकत्वमेव न पर्यायार्थिकत्वमित्याह- किञ्चित्कालेति । तदभ्युपगमस्तु पर्यायाभ्युपगमस्तु । तस्य किञ्चित्कालस्थाय्यशुद्धपर्यायाऽभ्युपगमस्य । किश्चिकालस्थाय्यशुद्धपर्यायाऽभ्युपगमस्योऽशुद्धद्रव्याऽभ्युपगमरूपत्वे हेतुः सत्तामहास मान्यरूपद्रव्यांशस्य घटादिसत्तारूपविशेष प्रस्तारमूलतयेति, अस्यायमर्थः- सत्तालक्षणं यत् सकलवस्त्वनुगतत्वान्महासामान्यम् , तद्रूपो यो द्रव्यांशः, द्रव्यस्य शुद्धद्रव्या-ऽशुद्धद्रव्यमेदेन द्वैविध्यम्, तत्र यदनुगाम्येव, न तु कुतोऽपि व्यावृत्तम् , तदनुगाम्येकस्वभावत्वा.
छुद्धद्रव्यम् , यच्च केषुचित् पर्यायेष्वनुगच्छति, केषुचित् पर्यायेषु च नानुगच्छति, किन्तु व्यावर्तते तदनुगाम्यननुगाम्युभयस्वभावत्वाद शुद्धद्रव्यम् , ततश्च सत्तामहासामान्यरूपो द्रव्यांशः शुद्धद्रव्यम् , तदेव घटादिसत्तारूपेणावभासते घटादिसत्तायास्तद्वयतिरेकेण वस्तुस्थित्याऽभावादिति तस्य सत्तामहासामान्यरूपद्रव्यांशस्य, घटादिसत्तारूपो यो विशेषप्रस्तारः- पटादिसत्ताव्यावृत्तत्वेन विभिन्नस्वरूपतया विभजनम् , तन्मूलतया- तन्निमित्ततया, सत्ता एकैव तथा तथाऽवभासत इति विशेषसम्पृक्तद्रव्यविषयकत्वेन घटादिसत्त्वाऽभ्युपगमो नैगमस्याऽशुद्धद्रव्याभ्युपगम एवेति द्रव्यार्थिकत्वमेव , न पर्यायार्थिकत्वमिति । तथा च महासामान्यशुद्धद्रव्याभ्युपगन्तुरस्य सङ्ग्रहेऽन्तर्भावः, घटादिसत्तारूपविशेषाऽऽत्मकाऽशुद्ध