________________
१०२]
- . [ तत्त्वबोधिनीविवृतिविभूषितम् नास्ति, तस्मादुभयात्मकं वस्तु, केवलिना तथाऽवगतत्वादिति हरिभद्राचार्या निगमयामासुः॥
तदवं द्रव्यार्थिकः पर्यायं प्रतिक्षिपति, पर्यायाथिकस्तु द्रव्यमिति द्रव्यांशाप्रतिक्षेपागमो द्रव्याथिक इति व्यवस्थितम् । न च तथा तजातीयेन पर्यायाप्रतिक्षपात् पर्यायार्थिकत्वमपि स्यादिति वाच्यम् , 'यजात्यवच्छेदेन द्रव्याऽप्रतिक्षेपित्वं तज्जातीयस्य तनयत्वम्' इत्येवं परिभाषणात् ।। द्रव्य-पर्यायोभयाऽऽत्मकम् । कथ द्रव्यपर्यायोभयात्मकमेव वस्तु, न केवलद्रव्याऽऽत्मकं केवलपर्यायाऽऽत्मकं वेत्यत आह- कवलिनेति । तथाऽवगतत्वात् द्रव्यपर्यायाभयाऽऽत्मकत्वेनैव वस्तुनो दृष्टत्वात् । नैगमस्य सामान्यविषयकत्वे पर्यायविषयकत्वे च सति पर्यायोपगन्तृत्वे पर्यायनयेप पारगणनमुचितम् , कथ च द्रव्यनय एव तस्य परिगणनांमत्याशङ्कासमुद्धरणायायमुपक्रमः, ततश्चोक्तयुक्त्या नैगमस्य द्रव्यांशाऽप्रतिक्षापत्वाद् द्रव्याथिकत्वमतो द्रव्याथिके तस्य परिगणमित्युपसंहरांत- दवामति । ननु नैगमो द्रव्यग्राही यथा द्रव्यं न प्रतिक्षिपात तथा पर्यायग्राही नैगमजातीयः पर्यायं न प्रतिक्षिपतीति पर्यायाऽप्रतिक्षापत्वात् पर्यायाथिकत्वमपि तस्य स्यादिति पर्यायाथिकेऽप्येवर्माप तस्य परिगणनं प्रसज्यत इत्याशङ्कय प्रतिक्षिपतिन चेति- 'वाच्यम्' इत्यनेनान्वयः। नैगममात्रस्य द्रव्यग्राहित्वम् , योऽपि गमः पर्याय गृहात द्विषयोऽपि पर्यायो नाऽन्त्यविशेष इति तस्य स्वविशेषाऽपेक्षया सामान्यत्वेन द्रव्यत्वमिति नैगमजात्यवच्छेदेन द्रव्याऽप्रतिक्षेपित्वेन नैगमस्य द्रव्याथिकत्वम्, परसामान्यस्य तु न कस्याऽप्यपेक्षया विशेषत्वमिति तग्राहिणो नैगमस्य पर्यायप्रतिक्षेपित्वेन नैगमजात्यवच्छेदेन पर्यायाऽप्रतिक्षेपित्वस्याऽभावान नैगमस्य पर्यायार्थिकत्वमिति प्रतिक्षेपहेतुमुपदर्शयति- यजात्यवच्छेदेनेत ।