________________
[ १०१
अनेकान्तव्यवस्थाप्रकरणम् ] स च न द्रव्याद् भिन्ना, तथाऽनुपलम्भात् , नाप्यसौ खरशृङ्गस्य, द्रव्यपरिणामत्वात् पर्यायस्य, खरविषाणस्य चाद्रव्यत्वात् , अत एव तत्-खरशङ्गम्, अपर्यवमित्यद्रव्यं सद् न ज्ञायते केवलिना, यतो ज्ञानं ज्ञेयविषयम् , ज्ञेयं च न खरशङ्गम् , अपर्यवत्वेनाऽद्रव्यत्वात् । अत एवोक्तं नियुक्तिकृता-"अपञ्जवे जाणणा णत्थि" [पत्र-९२] त्ति, ज्ञेयत्वाऽभावव्याप्याऽद्रव्यत्वव्याप्यधर्मप्रदर्शनपरमेतत् , पर्यायनये उत्पाद व्ययभागित्वमेव सत्वम्, द्रव्यनयेऽविचलितैकस्वभावत्वम् , सिद्धान्ते तु त्रैलक्षण्यमिति सिद्धान्तमाश्रित्य, ततोऽपर्याये परिज्ञा विशिष्ट इति । स च निरुक्तस्वरूपः पर्यायश्च । तथाऽनु ग्लम्भात् द्रव्याद् भिन्नत्वेन पर्यायाणामनुपलम्भात् । असौ पर्यायः। अत एव खरविषाण. स्याद्रव्यत्वादेव । कथं न ज्ञेयं खरशृङ्गमित्यपेक्षायामाह- अपयवत्वेनेतिसपर्यवं द्रव्यमेव ज्ञेयमित्यभिसन्धिः। अत एव अपर्यवत्वेनाऽद्रव्यत्वतोऽज्ञेयत्वादेव खरविषाणादेः । “ अपजवे जाणणा लत्थि" इतिनियुक्तिकृद्वचनरहस्यं यथोपदर्शितवन्तो भगवन्तो हरिभद्रसूरयस्तथा तदुल्लिखति- ज्ञेयत्वेनेति- ज्ञेयत्वाऽभावव्याप्यमद्रव्यत्वम् , यत्र यत्राऽ. द्रव्यत्वं तत्र तत्र ज्ञेयत्वाऽभावः , द्रव्यत्वस्य शेयत्वव्यापकत्वे द्रव्यत्वाऽभावलक्षणस्याऽद्रव्यत्वस्य व्यापकाऽभावतया व्याप्यज्ञेयत्वाऽभावव्याप्यत्वात् तद्वयाप्यधर्मोऽपर्यवत्वलक्षणः, यत्र यत्रापर्यवत्वं तत्र तत्र द्रव्यत्वाभावः, सपर्यवत्वस्य द्रव्यत्वव्यापकत्वे तदभाव. रूपस्यापर्यवत्वस्य द्रव्यत्वरूपव्याप्याऽभावलक्षणाऽद्रव्यत्वव्याप्यत्वात् , तादृशधर्मदर्शनपरम् , एतत् “अपज्जवे जाणणा नत्थि" इति नियुक्तिकृद्वचनम् , ततश्च यत् सिद्धथति तदाह- पर्यायनय इति । सिद्धान्ते तु स्याद्वादे तु। त्रैलक्षण्यम् उत्पाद-व्यय-ध्रौव्यात्मकत्वम् , सत्त्वमित्यनुवर्तते। इति सिद्धान्तम् एवंस्वरूपजैनसिद्धान्तम् । तस्मात् सिद्धान्तसिद्धोत्पाद-व्यय-ध्रौव्यात्मकत्वलक्षणसत्त्वतः । उभयाऽऽत्मकं