________________
१०० ]
[ तत्त्वबोधिनीधिवृतिविभूषितम् व्या०-लया-तिरोभावः, दर्शनाऽयोग्यं रूपमिति यावत् , प्रकाश:-आविर्भावः, दर्शनयोग्यं रूपमिति यावत् , ताभ्यां य: परिणामः स एव तन्मात्रम् , तत्र यदि तत्तद्विशेषबुद्धयभिधाननिमित्तत्वेन पर्यायोपचारः क्रियते, तन्नाम-मान्यामहे तदित्यर्थः, केवलं नासौ पर्यायो वास्तवः कोऽपि द्रव्यादर्थान्तरभूत इत्येतदेव भुजमुत्क्षिप्य ब्रूमः ॥
ननु यदि न वास्तवः पर्यायः, किन्तु कल्पितस्तदा खरशृङ्गस्याप्यसौ कुतो न भवति ? कल्पनामात्रस्य तत्रापि सुकरत्वादित्यत आह
"दव्वपरिणाममित्तं पजओ सो य ण खरसिंगस्स । तदपज्जवं ण णजइ, जं नाणं णेयविसयं ति ॥
[विशेषावश्यकभाष्यगाथा-२६७२] व्या०-कालविशेषादिविशिष्टो द्रव्यपरिणाममात्रं पर्यायो नान्यः, विवृणोति- लय इति । ताभ्यां निरुक्तलय-प्रकाशाभ्याम् । तत्र लयप्रकाशपरिणाममात्रे । तत्तद्विशेषेति- 'कुण्डलमिदम् , कटकोऽयम्' इत्यादिका या विशेषबुद्धिः, यश्च तथाविधमभिधानं तन्निमित्तत्वेनेत्यर्थः। 'तन्नाम' इत्यस्य 'मन्यामहे तदित्यर्थः' इति विवरणं भावार्थमाश्रित्य । तर्हि पर्यायोऽभ्युपगत एवेति पर्यवसितं विवादेनेत्यत आह- केवलमिति ॥ ___ कल्पितस्यैव पर्यायस्यऽभ्युपगमेऽपि द्रव्यस्यैव सः, न तु खरविषाणस्येत्युपदर्शिकां भाष्यगाथामवतारयति- नन्धित्यादिना । असो कल्पितः पर्यायः। तत्रापि खरशृङ्गेऽपि । दव्व० इति- “द्रव्यपरिणाममात्रं पर्यायः स च न खरगृङ्गस्य । तदपर्यवं न शायते यजानं शेयविषयमति" ॥ इति संस्कृतम् । विवृणोति-कालविशेषादि