________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ९५
चलितैकस्वभावत्वेन 'सत् सत्' इति व्यवहारविषयतया द्रव्यमेव हि मौलं सच्वम्, तदभावाच्च पर्यायाणामसत्त्वमित्यर्थात्, तर्ह्य सत्य पर्यायांशे तदवगाहि केवलज्ञानस्य भ्रान्तत्वं स्यादिति चेत् ? न तदुपहितद्रव्यस्यैव तेन ग्रहणाभ्युपगमेन तदंशेऽभ्रान्तत्वात् । न चोपहिताSनुपहितभेदेऽपि द्रव्यभेदापत्तिः, घट- पटाकाशाभेदवत् तदभावात् । न चासतोऽनुपधायकत्वम्, प्रतिसूर्यस्य जलोपधायकत्ववदविरोधात्
निरुपारिभाषिकाऽसत्त्वयोगादिति समाधते-नेति । अविचलितेतिपर्यायाणां नाऽविचलितकस्वभावत्वमिति न तड़पेण 'सत् सत्' इति व्यवहारविषयत्वमतो द्रव्यमेवाऽविचलितस्वभावत्वेन 'सत् सत्' इति - व्यवहार विषयत्वेन मौलं सत्त्वमित्यर्थः । तदभावाच मौलसत्त्वाभावाच्च । ननु अपर्याये केवल्यादीनां परिशा नास्तीत्यतः सपर्यायस्येव द्रव्यस्य ग्राहकं केवलिज्ञानम् . पर्यायाश्चाऽसन्त इति तद्विषयकत्वाद् भ्रान्तत्वं केवलज्ञानस्य स्यादित्याशङ्कते - तहींति । तदवगाहीति सपर्यायद्रव्याऽवगाहीत्यर्थः । पर्यायाणामसत्त्वात् तदवगाहित्वं नास्त्येव केवलज्ञानस्य, किन्तु तदुपहितद्रव्यग्राहित्यमेव, द्रव्यं च सदेवेति तदंशेऽभ्रान्तत्वाम्न भ्रान्तत्वाऽऽपत्तिः केवलज्ञान इति समाधत्ते-नेति । तदुपहितद्रव्यस्यैव पर्यायोपद्दितद्रव्यस्यैवः एवकारेण पर्यायग्रहणस्य व्यवरुक्छेदः । तेन केवलज्ञानेन । तदंशे द्रव्यांशे । ननु पर्यायोपहितद्रव्यस्य केवलज्ञानविषयतयाऽभ्युपगमे द्रव्यस्य यत् पर्यायोपहितं स्वरूपं ततः पर्यायाऽनुपहितस्य द्रव्यस्य मेदे द्रव्यभेदः स्यादित्याशङ्कन्य प्रतिक्षिपति - न चेति । निषेधे हेतुमाह-घ ेति-घटाऽऽकाश-पटाऽऽकाशादीनां भेदेऽपि आकाशस्य यथाऽभेदस्तथेत्यर्थः । 'बट-पटISS काशाऽभेदवद्' इति स्थाने 'घट-पटाऽऽकाशभेदेऽपि आकाशाभेदवद्' इति पाठो युक्तः । तदभावात द्रव्यभेदाऽभावात् । ननु पर्यायाणामसत्वेऽसतां तेषां द्रव्योपधायकत्वमपि न भवेदिति तदुपहित