________________
९४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् नद्युत्फण-विफण-कुण्डलिनाद्यवस्थासु सर्पादिद्रव्यस्य स्वरूपव्यतिरिक्तः कोऽपि पर्यायः, सर्वावस्थाऽविचलितस्वरूपस्य सर्पादिद्रव्यस्यैव संलक्षणात् । यदि पर्याया न विद्यन्ते तदा कथमुच्यते यान् यान् भावान् परिणमत इत्यत आह-अपर्याये-पर्यायरहिते वस्तुनि, 'जाणण'त्ति- केवल्यादीनां परिज्ञा, नास्ति, ज्ञानविषयतयोत्प्रेक्षामात्रेणैव तत्पर्यायाः सन्ति, न तु द्रव्यव्यतिरेकिणः, अतो द्रव्यान्यसत्त्वाऽभावादसन्त एव पर्यायाः, द्रव्यमेव च परमार्थसदित्यर्थः ॥
ननु द्रव्यान्यसत्त्वाभावाद् यदि पर्यायाणामसत्त्वं तदा द्रव्यस्याप्यसत्त्वं स्यात् , नहि द्रव्येऽपि द्रव्यान्यसत्ता द्रव्यार्थिकेनाभ्युपगम्यते, किन्तु द्रव्याऽऽत्मिकैव, कालवृत्त्यत्यन्ताभावप्रतियोगित्वरूपमसचंतु परिभाष्यमाणमपि न मौलं सत्वं विरुणद्धीति चेत् ?न-अविव्यवहारस्तु पृथक्तया तथाकल्पितत्वादेवेति भावः । येन येन परिणमति द्रव्यं तत् तद् द्रव्यस्वरूपमेवेति दृष्टान्ततो भावयति- नहीति । संलक्षणात् अनुभूयमानत्वात् । 'अपर्याये परिक्षा नास्ति' इत्येतदुक्तिमवतारयति-यदीत्यादिना । तत्पर्यायाः द्रव्यपर्यायाः। अतः द्रव्यव्यतिरेकिपर्यायाऽभावात् ॥
शङ्कते-नन्विति । किन्तु द्रव्याऽऽत्मिके वेति-तथा च द्रव्याऽऽत्मकसत्तातो यथा द्रव्यस्य सत्वं तथा द्रव्याऽऽत्मकसत्ताया द्रव्यरूपेषु पर्यायेष्वपि भावात् तेषामपि सत्त्वमङ्गीकरणीयमेवेति कुतो भवन्मते द्रव्यनये पर्याया न सन्तीत्युक्तिरुपपन्नेति भावः । ननु पर्यायाणां कालवृत्त्यत्यन्ताऽभावप्रतियोगित्वरूपस्याऽसत्त्वस्य सत्त्वविगेधिनो भावान्न सत्त्वमुपपद्यत इत्यत आह-कालेति-निरुक्ताऽसत्त्वस्य पारिभाषिकस्य मौलसत्त्वविरोधित्वाऽभावात् तदभावेऽपि मौलसर स्यादेवेत्यर्थः। मौलसत्त्वाऽभावादेव पर्यायाणामसत्त्वमभ्युपगम्यते, न तु