________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ९३ बाध इत्यालोच्य प्रयोग-विस्रसाभ्यामिति व्याख्यातम् । तथा च यान् यान् भावानिति कर्मवीप्सामहिम्ना 'वाम-दक्षिणहस्ताभ्यां यं यं गृह्णाति' इत्यत्रेव प्रत्येककरणान्वयतात्पर्यान्नाऽनुपपत्तिरिति ध्येयम् । 'तं तह' त्ति वीप्साप्रधानत्वानिर्देशस्य तत् तत् तथा तथातेन तेन रूपेण परिणमद् द्रव्यमेव, जानाति जिनः केवली, न पुनस्तदतिरिक्तान् पर्यायानिति भावः, तेषामुत्प्रेक्षामात्रेणैव सत्त्वात् , स्याद्' इत्यनुषङ्गः । नन्वेवमप्युक्तदोषतादवस्थ्यमेवेत्यत आह- तथा चेति-लुप्तविभक्तिकस्य 'पओग-वीससा' इत्यस्य 'प्रयोग-विलसाभ्यामित्येवं व्याख्यातत्त्वे च । यत्र कर्मवीप्सा तत्र प्रत्येकं करणान्वय इत्यत्र दृष्टान्तमाह- वाम-दक्षिणहस्ताभ्यामिति- कस्यचिद् वस्तुनो वामहस्तेन ग्रहणं कस्यचिद् दक्षिणहस्तेन ग्रहणं कस्यचित् पुनर्वाम-दक्षिणहस्तद्वयेन ग्रहणम् , तस्य सर्वस्य ग्रहणस्य 'वामदक्षिणहस्ताभ्यां यं यं गृह्णाति' इत्यनेनावबोधो भवति, कर्मवीप्सामाहात्म्यात् , तथा प्रकृतेऽपीति नाऽनुपपत्तिलेशोऽपीत्यर्थः। 'जं जं जे जे भावे' इति वीप्सासद्भावात् 'तं तह' इति निर्देशो वीप्साप्रधानक इति तत् तत् तथा तथेत्येवंस्वरूपत्वमित्याह- तं तहत्तीति । येन येन रूपेण न परिणमति द्रव्यं तथाभूतान् द्रव्यव्यतिरिक्तान् पर्यायान् सर्वज्ञोऽपि जिनो न जानातीत्याह- न पुनरिति । तादृशपर्यायाणां परमार्थतोऽसत्त्वादेव केवलनानाऽविषयत्वमतो न जिनस्य सर्वशत्वहानिरित्याह- तेषामिति-तथाभूतपर्यायाणामित्यर्थः, येन येन परिणमति द्रव्यं तत् तद् रूपं द्रव्यस्वरूपमेव, न तु तव्यतिरिक्तम् , तस्मात् पर्याया द्रव्यव्यतिरिक्ता न सन्त्येवेति परमार्थतोऽसतां तेषां शानाऽभावेऽपि सतां सर्वेषां पर्यायाणां द्रव्यस्वरूपत्वमेवेति द्रव्याणामेव केवलिशानविषयत्वं परमार्थतः सत्त्वात् , तव्यतिरिक्ताणां पर्यायाणां केवलिज्ञानाऽविषयत्वात् परमार्थतोऽसत्त्वमेव,