________________
२२]
[ तत्त्वबोधिनीविवृतिविभूषितम् द्रव्यार्थिकस्य समर्थनार्थ नियुक्तिकृदप्याह"जं जं जे जे भावे परिणमइ पओग-वीससा दव्वं । ___ तं तह जाणाइ जिणो अपजवे जाणणा णत्थि ।।
[विशेषावश्यकनि० २६६७ ] व्या०-'पओगवीसस'त्ति लुप्तविभक्तिको निर्देशः, प्रयोगःचेतनवतो व्यापारः, विस्रसा-स्वभावः, ताभ्यां यान यान् भावान्कृष्णत्व-रक्तत्व-पीतत्व-शुक्लत्वादीन् , यद् यद् द्रव्यं-घटाऽभ्रधनुरादि, परिणमति-आत्मसात कुरुते । 'प्रयोगविस्रसाद्रव्यम्' इत्येक- . समासस्वीकारे तु प्रयोगविस्रसानिष्पन्नद्रव्यमित्यर्थे द्रव्यपदस्य व्यक्तिवचनत्वेन तदुभयनिष्पन्नमिश्रद्रव्यस्यैव सङ्ग्रहः स्यात्, न प्रयोगिक वैससिका(कयोः), जातिवचनत्वे च जातेरनिष्पन्नत्वेन नास्ति" ॥ इति संस्कृतम् । विवृणोति- पओग-वीससत्तीति- अत्र तृतीयाविभक्तिलृप्तेति लुप्तविभक्तिकः 'पओग-वीससा' इति निर्देश इत्यर्थः। ताभ्यां प्रयोगवित्रसाभ्याम् । ननु 'पओग-वीससादव्वम्' इति समासवाक्यमेव कुतो नाङ्गीक्रियते ? येन 'पओगवीससा' इति लुप्तविभक्तिकनिर्देशकल्पनाऽङ्गीकारोऽपि न कर्तव्यः स्यादित्यत आह- प्रयोगेति । तस्य समासवाक्यत्वे प्रयोग-विस्त्रसानिष्पन्नद्रव्याऽर्थकत्वं वाच्यम् । तत्र द्रव्यपदं व्यक्तिवाचि भवेत् , सामान्यवाचि वा ? आये यदेव द्रव्यं प्रयोग-विस्रसानिष्पन्नं तस्यैव सङ्ग्रहः स्यात् , न तु यत् प्रयोगमात्रनिष्पन्नं यच्च विस्रसामात्रनिष्पन्नं तयोर्द्रव्ययोः प्रयोगविस्रसोभयनिष्पन्नत्वाभावात् , द्वितीये सामान्यस्य नित्यतया केनचिदपि 'निष्पत्तेरभावेन बाध एव स्यादतो न समासवाक्यत्वमित्याह- प्रयोग-विस्रसानिष्पन्नद्रव्यमित्यर्थ इति। तदुभयेति-प्रयोग-विनसोभयेत्यर्थः। 'प्रायोगिकवैनसिकोः' इत्यनन्तरं 'सङ्ग्रहः