________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ९१ आविब्भाव-तिरोभावमेत्तपरिणामि दव्वमेवेयम् । णिचं बहुरूवं पि य णडो व्व वसंतरावण्णो ।।
[विशेषावश्यकभाष्यगाथे-२६६५, २६६६ } व्या०-द्वितीयस्य द्रव्यार्थिकनयस्य सर्व सुवर्ण-रजतादिकं द्रव्यमात्र मेवास्ति, गुणस्तु रक्तत्वश्वेतत्वादिकस्तदर्थान्तरभूतो नास्ति, तस्य सामान्यरूपतयाऽवस्थानाभावात् खरविषाणवत् , तथाहिआविर्भावः कुण्डलादिरूपेणाभिव्यक्तिः, तिरोभावश्च मुद्रिकादिरूपेणानभिव्यक्तिः, तावेव तन्मात्रम् , तेन परिणन्तुं-प्रवर्तितुं शील यस्य तत् तथा। द्रव्यमेवेदं सुवर्णादिकमस्ति, न तु तदतिरिक्ता गुणाः । किम्भूतं द्रव्यम् ? नित्यम्-अविचलितस्वभावम् , बहुरूपं च-कङ्कणा-ऽङ्गद-कुण्डल-मुद्रिकादिबहुपरिणामम् , राम-रावण-भीमाऽर्जुनादिसम्बन्धीनि वेषान्तराण्यापन्नो नट इव ॥
द्रव्यार्थिकमन्तव्योपदर्शकं भाष्यगाथाद्वयमवतारयति- अथेति । बीयस्स० इति- "द्वितीयस्य द्रव्यमानं नास्ति तदर्थाऽन्तरं गुणो नाम । सामान्याऽवस्थानाऽभावात् खरविषाणमिव। आविर्भावतिरोभावमात्रपरिणामि द्रव्यमेवेदम् । नित्यं बहुरूपमपि च नट इव वेषान्तराऽऽपन्नः" ॥ इति संस्कृतम् । विवृणोति- द्वितः यस्यति । तदर्थऽन्तरभूतः द्रव्याद् भिन्नः। तावेव आविर्भाव-तिरोभावावेव । तन्मात्रम् आविर्भाव-तिरोभावमात्रम् । तेन आविर्भाव-तिरोभावमात्रेण । तथा आविर्भाव-तिरोभावमात्रपरिणामि । तदतिरिक्ता द्रव्यव्यतिरिक्ताः। कङ्कणत्यादि सुवर्णद्रव्यमधिकृत्य, अन्यत् स्पष्टम् ॥
द्रव्यार्थिकाऽभिप्रायोपदर्शकं नियुक्तिकृद्वचनमवतारयति- द्रव्यार्थिकस्येति । जं जं. इति- “यद् यद् यान् यान् भावान् परिणमते प्रयोग-वित्रसाभ्यां द्रव्यम् । तत् तथा जानाति जिनोऽपर्यवे परिक्षा