________________
९० ]
[ तत्त्वबोधिनीधिवृतिविभूषितम् " उप्पायभरा जं गुणा य न य सो त्ति ते य तप्पभवा । न य सो तप्पभवो त्ति य जुज्जइ तं तदुवयाराओ॥
[विशेषावश्यकभाष्यगाथा-२६६३ ] - व्या०-यत्-यस्माद् , उत्पादभङ्गुरा गुणाः, न चासौ सन्तान उत्पाद-भङ्गुरः, तस्य प्रवाहनित्यतया स्थितत्वादित्येको गुणसन्तानयोधर्मभेदः, तथा, ते-सामायिकादयो नीलतादयो वा गुणाः, तत्रैव सन्ताने प्रभवः-उत्पत्तिर्येषां ते तथा, न पुनरसौ सन्तानः, तत्प्रभवः-गुणेभ्यो लब्धात्मलाभः, तस्य गुणसादृश्यनिबन्धनत्वात् , तथा च कारणमेव सन्तानः, न कार्यम् , कार्यमेव च गुणाः, न कारणम् , इत्येष द्वितीयो गुणसन्तानयोधर्मभेदः, इति युज्यते तद्-जीवद्रव्यम् , तदुपचारात्-तत्र गुणसन्ताने गुणेभ्यो भेदकल्पनात् । तदेवं पर्यायाथिंकनयमतं युक्तितः समर्थितम् ॥
अथ द्रव्यार्थिकनयाभिप्राय दिदर्शयिषुराह" बीयस्स दव्यमेत पत्थि तदत्थंतरं गुणो णाम । सामन्नावत्थाणाऽभावाओ खरविसाणं व ।।
उपायमगुग० इति " उत्पाद-भगुरा यद् गुणाश्च न च स इति ते च तत्प्रभवाः । न च स तत्प्रभव इति च युज्यते तत् तदुपचारतः" ॥ इति संस्कृतम् । विवृणोति- पहिति। तस्य सन्तानस्य । तथा तत्प्रभवाः। ननु गुणसन्तानस्य गुणाऽप्रभवत्वे गुण सन्तान इति कथमुच्यत इत्यत आह- तस्यैति- गुणसन्तानस्थेत्यर्थः । तथा च गुणस्य गुणसन्तानप्रभवत्वं न तु गुणसन्तानस्य गुणप्रभवत्वमिति व्यवस्थितौ च । ' तदुपचाराद्' इत्यस्य विवरणम्- 'तत्र गुणसन्ताने पुणेभ्यो मेरकल्पनात् ' इति । उपसंहरति- तदेवमिति ॥