________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ ८९ पत्तेः, समानविशेष्यत्वप्रत्यासत्या घटादिनिरूपितषष्ठ्यर्थामेदप्रकारकशाब्दबोधे स्वरूपादिपदजन्यपदार्थोपस्थितेर्हेतुत्वान्न तदापत्तिरिति न्यायमार्गः । तथा च कथं कल्पितस्यापि गुणव्यतिरेकिणो द्रव्यस्य सद्भाव इत्याशङ्कायां भेदकल्पनानिबन्धनं धर्मभेदमुपदिदर्शयिषुराह
'घटस्य घटः' इति न प्रयोगः, 'घटस्य स्वरूपम्' इति तु सर्वैरपि प्रयुज्यत इति तथाप्रयोगः, तन्निर्वाहाय चाऽभेदार्थिका षष्ठी स्वीक्रियत इत्याह- अप्रयोगादेवेति । तदनापत्तः 'घटस्य घटः' इति प्रयोगाऽनापत्तेः। नन्वप्रयोगदेवाऽप्रयोग इति न्यायमात्रेण 'घटस्य घटः' इति प्रयोगाऽनापत्तिर्न सम्भवति कार्यकारणभावाऽऽदिमूलरहितस्य न्यायस्य न्यायाभासत्वाद् , अतो वाच्यमस्य
मूलं येन 'घटस्य स्वरूपम्' इति प्रयोग उपपद्येत, 'घटस्य घट' . इतिप्रयोगाऽनापत्तिश्चेत्यत आह-सनविशेष्यत्वप्रत्यासत्येति-विशेष्यता
सम्बन्धेन घटादिनिरूपितषष्ठयर्थाभेदप्रकारकशाब्दबोधं प्रति विशेष्यतासम्बन्धेन स्वरूपाऽऽदिपदजन्योपस्थितिः कारणम् , तथा च 'घटस्य स्वरूपम्' इत्यत्र स्वरूपादिपदजन्योपस्थितेः स्वरूपे विशेष्यतासम्बन्धेन सत्त्वेन तद्रूपकारणबलात् स्वरूपे घटनिरूपितषष्ठयर्थाऽमेदप्रकारकशाब्दबोधः सम्भवतीति तत्प्रयोजको 'घटस्य स्वरूपम् ' इति प्रयोग उपपद्यते. 'घटस्य घटः' इत्यादौ च स्वरूपपदस्याऽभावेन तजन्योपस्थितेरपि विशेष्यतासम्बन्धेन घटेऽभावेन कारणाऽभावादेव न घटे घटनिरूपितषष्ठयर्थाऽभेदप्रकारकशाब्दबोधस्य विशेष्यतासम्बन्धेन सम्भव इति न तत्प्रयोजको 'घटस्य घटः' इति प्रयोग इति प्रयोज्याभावात् तादृशप्रयोगाऽनापत्तिरित्यर्थः। तथा च गुण-तत्सन्तानयोर्भेदकल्पनाया असम्भवे च॥