________________
८८ ] .
[ तत्त्वबोधिनीधिवृतिविभूषितम् शरीरम्' इत्यादिभिर्व्यभिचारात् ।।
ननु गुण सन्तानयोर्घट-तत्स्वरूपवद् मेदकल्पनैव न सम्भवति तनिबन्धनधर्माऽभावात् , षष्ठी चाऽभेदार्थिकैव 'घटस्य खरूपम्' इत्यत्रेव । न चैवं 'घटस्य स्वरूपम्' इतिवद् 'घटस्य घटः' इति प्रयोगाऽऽपत्तिः, 'अप्रयोगादेवाऽप्रयोगः' इति न्यायेन तदना
सम्बन्धिद्वयस्याभावेऽपि षष्ठीविभक्तिदृश्यत इति वास्तष एष सम्बन्धिद्वये षष्ठीति नियमस्य व्यभिचाराद्- असम्भवादित्यर्थः॥
गुण-तत्सन्तानयोर्भेदनिबन्धवैधोपदर्शकगाथामवतारयितुमाशङ्कते- नन्विति । घट-तत्स्वरूपयोर्भेदकल्पनानिमित्तधर्माऽभावाद् यथा भेदकल्पना न सम्भवति तथा गुण-तत्सन्तानयोरपि भेदकल्पनानिमित्तधर्माऽभावाद् मेदकल्पना न सम्भवतीति मेदकल्पनामुपादाय जीवस्य सामायिकगुण इति षष्ठी मेदार्थिका न सम्भवतीत्याह--गुण-सन्तानयोरिति । तन्निबन्धनधर्माऽभावात् भेदकल्पनानिमित्तस्य विरुद्धधर्माऽध्यासस्य गुण-सन्तानयोरभावात् । एवं च भवन्मते जीवस्यैष गुण इति नोपपद्यते, अस्मन्मते च द्रव्यार्थिकनये द्रव्यगुणयोरभेद इत्यभेदरूपार्थमुपादायोक्तषष्ठीविभक्तिरुपपन्नेत्याह- षष्ठी चाऽमेदार्थिकैवेति । अमेदे च षष्ठी दृश्यते, यथा- घटस्य स्वरूपमित्याह- घटस्य स्वरूपमित्यत्रेवेति । ननु ययभेदे षष्ठी तहिं घटस्य स्वरूपम्' इतिवद् 'घटस्य घटः' इत्यपि स्यात् , स्वस्मिन् स्वाऽभेदे सर्वेषामविप्रतिपत्तरित्याशङ्कय प्रतिक्षिपति-न चैवमिति । 'घटस्थ स्वरूपम्' इति प्रयुज्यते इति तथाप्रयोगोपपत्तयेऽभेदेऽपि षष्ठीति स्वीक्रियते, 'घटस्य घटः' इति तु न प्रयुज्यत एवेति किमत्र क्रियताम् ? नहि अभेदार्थिका षष्ठीविभक्तिर्भवतीत्येतावतैव न तत्प्रयोगः, निमित्तसत्त्वेऽपि तथा न केनचित् प्रयुज्यत इत्यत एष