________________
अनेकान्तब्यवस्थाप्रकरणम् ]
[ ८७
निवारयिता १, यथा- पत्रस्य गुणसमुदायव्यतिरिक्तस्य कल्पितस्य, तत्सन्ताने - तस्मिन्नेव [ पत्र सन्ताने, ] उदिता उत्पन्ना अस्तमिताच विनष्टा, नीलता गुणो व्यवहियते, तथा प्रकृतकल्पनायामपि व्यवहर्तॄणां न बाधकम् । आशूत्पत्तिदोषेण क्षणिकगुणसन्ताने भेदाऽग्रहादभेदेनाध्यवसिते तत्र द्रव्यप्रवृत्तेरित्यर्थः ॥
C
न च वक्तव्यम् - 'देवदत्तस्य गावः' इत्यादौ वास्तव एव सम्बन्धिद्वये षष्ठीदर्शनान्नोक्तोपपत्तिरिति, ' राहोः शिरः, शिलापुत्रकस्य तद्विशेषणमुक्तम् । 'उदिता' इत्यस्य उत्पन्ना 'अस्तमिता' इत्यस्य ' विनष्टा' इत्यर्थः । क्षणिकगुणसन्ताने द्रव्यपदप्रवृत्तिहेतुमुपदर्शयति- आशूत्पत्तिदोषेणेति-क्षणिकगुणसन्ताने एकगुणोत्पत्त्यनन्तरक्षण एव द्वितीयगुणोत्पत्तिरित्येवमाशूत्पत्तिलक्षणदोषेणेत्यर्थः अस्य मेदाऽग्रहाद्' इत्यत्रान्वयः, मेदग्रहस्याऽध्यवसायप्रतिबन्धकत्वम् ; तदभावे च भिन्नयोरपि पूर्वोत्तरगुणक्षणयोरमेदाऽध्यवसाय इत्येव - ममेदाऽध्यवसिते गुणसन्ताने द्रव्यपदप्रवृत्तेः- द्रव्य मिदमित्येवं व्यवहारादित्यर्थः ।
3
"
>
C
ननु जीवस्य गुणसन्तानस्य कल्पितद्रव्यरूपस्य, सामायिकस्य वास्तवगुणरूपस्याकल्पितस्य : मेदप्रतिपादिका जीवस्य सामायिकगुण इति षष्ठी न सम्भवति, वास्तवयोरेव सम्बन्धिनोर्भेदलक्षणसम्बन्धप्रतिपादकत्वस्य षष्टीविभक्तौ 'देवदत्तस्य गावः' इत्यादौ दर्शनादित्याशङ्कय प्रतिक्षिपति - न चेति । अभिन्नस्यापि वस्तुनो भिन्नतया कल्पनायां ' राहोः शिरः' इत्यादौ पष्ठीविभक्तिदर्शनात् सम्बन्धिद्वय वास्तवत्वस्य तत्रातन्प्रत्वादिति निषेधहेतुमुपदर्शयतिर होः शिर इति - एकस्यैव सिंहिकापुत्रस्य च्छिन्नं शिरो राहुः शिरोरहितं तत्कलेवरं च केतुरिति द्विधा व्यवहारः, तथा च यदेव शिरस्तदेव राहुः यदेव शिलापुत्रकं तदेव शरीरमिति भिन्नस्य
"