________________
८६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् इत्यादिनोक्तोत्तरत्वात् । अथ द्वितीयः, तत्रोच्यते-उत्पादभङ्गुराणां प्रतिक्षणमुत्पादव्ययगुणयोगिनाम् , गुणानां यः सन्तानः-सभागसन्ततावनवरतप्रवृत्तिः, तस्मिन् यदि समानबुद्ध्यभिधानहेतुत्वेन निवन्धनेन द्रव्योपचारमानं क्रियते षष्ठीवादिना भवता, तदा तन्नाम- 'नामेत्यभ्युपगमे' मन्यामहे तदित्यर्थः, नहि कल्पितद्रव्यसद्भावो वास्तवं द्रव्याभा विरुणद्धि ।।
ततश्च तद्भेदकल्पनात्-तेन कल्पितद्रव्येण सह भेदकल्पनात्, तत्-सामायिकम् , तस्य-कल्पितजीवद्रव्यस्य गुणो भवतु, को यदि पर्यायार्थिकमते कल्पितं द्रव्यमिति पक्षः। 'उत्पाद-भङ्गुराणाम्' इत्यस्य विवरणम्- उत्पाद - व्ययगुणयागनामिति,। 'सन्तान:' इत्यस्य स्वरूपकथनम्-सभागसन्ततावनवरतप्रवृत्तिरिति, गुणानां या सभागसन्ततावनवरतप्रवृतिरिति तदर्थः। तस्मिन् उक्तस्वरूपसन्ताने, यदि द्रव्यो. पचारमा क्रियते इति सम्बन्धः। केन हेतुना द्रव्योपचारमात्रं क्रियते? इत्यपेक्षायामाह- 'समानबुद्धयभिधानहेतुत्वेन निबन्धनेनेति । केन क्रियते? इत्यपेक्षायाम्- षष्ठीनादिना भवतेति। 'नाम' इत्यस्याभ्युपगमपरत्वे 'तन्नाम' इत्यस्य कोऽर्थ इत्यपेक्षायामाहमन्यामहे तदित्यर्थः। नन्वेवं पर्यायनये द्रव्याभ्युपगमे पर्यायनयो द्रव्यं नाभ्युपगच्छत्तीति भवन्मतस्य हानिः स्यादित्यत आहनहीति- अस्मन्मते पर्यायनयो वास्तवं द्रव्यं नेच्छतीत्येवाभ्युपगमो न तस्य विरोधः कल्पितद्रव्याभ्युपगमेऽपीति ॥ ___सतश्च कल्पितद्रव्यसद्भावस्य वास्तवद्रव्याभावाविरोधाश्च । 'सद्भेदकल्पनाद्' इत्यस्य 'तेन कल्पितद्रव्येण सह भेदकल्पनाद्' इत्यर्थः। 'तस्य' इत्यस्य 'कल्पितजीवद्रव्यस्य ' इत्यर्थः। पत्रस्य वास्तवत्वे न प्रकृतदृष्टान्ततासम्भव इति 'गुणसमुदायव्यतिरिक्तस्य कल्पितस्य ' इति