________________
[८५
अनेकान्तव्यवस्थाप्रकरणम् ] . हि-यस्मात् , षष्ठया-षष्ठीनिर्देशाद् , अवसीयते, ततः, सः-जीवो द्रव्यम्, तच्च-सामायिकं गुणः, स च सामायिकगुणः, ततः-जीवद्रव्याद् , भिन्न इति, पर्यायनयमते भिन्नद्रव्य-पर्यायोभयसद्भावस्य श्रौतत्वान्मदीयमेव व्याख्यानं श्रेय इति परस्याकूतम् ॥ . अत्रोत्तरमाह
"उप्पायभंगुराणं, पइक्खणं जो गुणाण संताणो । दव्योवयारमेत्तं , जइ कीरइ तम्मि तन्नाम ॥ तब्भेयकप्पणाओ, तं तस्य गुणो त्ति होउ सामइयं । पत्तस्स नीलया जह, तस्संताणोदियत्थमिया ॥
[विशेषावश्यकभाष्यगाथे-२६६०, २६६१] व्या०-ननु पर्यायार्थिकमते वास्तवं द्रव्यं त्वयेष्यते? कल्पितं वा ? यद्याद्यः पक्षः, सन युक्तः "जइ पजायनओ चिय" [पत्र-७४] इत्यस्य विवरणम्-षष्ठीनिर्देशादिति । अवसीयत इति पूरणम् , अन्यत् स्पष्टम् । पराऽभिप्रायमुपवर्णयति-पर्यायनयमत इति ।
उत्तरभाष्यमवतारयति-अत्रोत्तरमाहेति । “उप्पाय०" इति-'उत्पादभङ्गुराणां प्रतिक्षणं यो गुणानां सन्तानः । द्रव्योपचारमात्रं यदि क्रियते तस्मिन् तन्नाम" ॥ तद्भेदकल्पनातस्तत् तस्य गुण इति भवतु सामायिकम् । पत्रस्य नीलता यथा तत्सन्तानोदिताऽस्तमिता" ॥ इति संस्कृतम् । उक्तगाथाद्वयार्थ व्याख्यातुकामस्तत्सङ्गमनार्थ परं पृच्छति-नन्विति । त्वया पूर्वपक्षवादिना । यद्याद्यः पक्षः पर्यायार्थिकमते वास्तवं द्रव्यमिति कल्पो यदि। स आद्यपक्षः । “ पजायनओ चिय०" इन्यादिनेति-'आदिपदात् “सम्मन्नइ दो वि दव्व-पजाए। दवडिओ 'किमढे जइ व मई दो वि जमभिन्ने"॥ इत्यादेरुपग्रहः, तदर्थस्तु प्रागुपदर्शित एवेति । अथ द्वितीयः