________________
८४]
[ तत्त्वबोधिनीविवृतिविभूषितम् अथ यदुक्तम्-'सो चेव पज्जवट्टियनयस्य जीवस्य एस गुणो" त्ति [पत्र-६१] एतदवष्टभ्य परः प्राह
"नणु भणिय पन्जायट्टियस्य जीवस्स एस हि गुणो त्ति । छट्ठीए तओ दवं, सो तं च गुणो तओ भिन्नो"।
[विशेषावश्यकभाष्यगाथा-२६६० ] व्या०-ननु “सोचेव०" [पत्र-६१] इत्यादिनियुक्तिगाथोत्तरार्धे भणितम्-पर्यायार्थिकनयमतेन जीवस्यैष-सामायिकलक्षणो गुण इति । भिन्नाऽभिन्नं द्रव्यं सामायिकम् , स्याद्र्व्यभिन्नाऽभिन्नो गुणः सामायिकमिति सम्भवति, तथाऽपि 'सामायिकं स्याद्रव्यं स्यात्पर्यायश्च' इत्येवं सामायिके द्रव्य-पर्यायात्मकत्वस्याद्वादतो निरुक्तोत्तरप्रविष्टद्रव्यगुणमेदाऽभेदस्याद्वादस्याऽभेद एवेति प्रमाणोत्तरमेवैतत् , न तु नयोत्तरम् । ननु पूर्णोत्तरत्वादभ्यर्हितत्वेनेष्टमेवैतदिति चेत् ? मैवं मंस्थाः -ईदृशेन प्रमाणोत्तरेण सामायिके द्रव्यपर्यायात्मकत्वलक्षणस्याद्वादार्थत्वस्य सिद्धावपि कथं 'द्रव्य-पर्याययोभैदाऽमेदौ' इति स्याद्वादलक्षणोत्तराभिधानमूलीभूताया जिज्ञासायास्तदानीमपि व्युपरमाऽभावेन तदनन्तरमपि तदपेक्षावचनलक्षणनयोत्तरस्यावश्यं वक्तव्यत्वाऽऽपातात् , अतः प्रथम नयोत्तरवचनम् , ततः प्रतिनियततत्तद्धर्मनिमित्तावच्छेदकसिझ्या तत्तन्निमित्तलब्धा. 'ऽविरोधभेदाऽभेदादिधर्मात्मकानेकधर्मसंघटितमूर्तिवस्तुप्रतिपादक - स्याद्वादप्रमाणराजात्मकमुत्तरं व्युपरतजिज्ञासमुचितमिति ॥
पुनः परः शङ्कते-अथेति "नणु०" इति-"ननु भणितं पर्यायार्थिकस्य जीवस्यैष हि गुणइ ति । षष्ठया ततो द्रव्यं स तच्च गुणस्ततो भिन्नः" ॥ इति संस्कृतम् । विवृणोति-नन्विति । 'भणितम्' इत्युक्तम् , तत् व भणितमित्यपेक्षायामाह-'सो चेव' इत्यादिनियुक्तिगायोत्तरार्द्ध इति । एष' इत्यस्य विवरणम्-सामायिकल क्षण इति । 'षष्टया'