________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ८३ नानुपपन्न इति चेत् , न- वक्त्रभिप्रायरूपनयपक्षेऽन्योन्याश्रयात् , एवं सति सामायिके द्रव्यपर्यायात्मकत्वस्याद्वादात् तत्कुक्षिप्रविष्टतद्भेदाऽभेदस्याद्वादस्यानतिरिक्तत्वप्रसङ्गाच । न चेष्टापत्तिः, तत्र द्रव्यपर्यायात्मकत्वस्याद्वादसिद्धावपि तद्भेदाभेदस्याद्वादोत्थापनमूलाकाङ्क्षाऽव्युपरमाभावादिति दिग॥ . न सङ्गत इति समाधत्ते-नेति । परमते दोषान्तरमप्याह-एवं सनीतिजीवाऽभिन्नगुणत्वादेः सामायिके द्रव्यनयाऽऽदितस्तव मते प्रसिद्धयुपगमे सतीत्यर्थः। तत्कुक्षिप्रविष्टति-द्रविशेषणतया पर्यायभेदाऽभेदयोः पर्यायविशेषणतया द्रव्यभेदाभेदयोस्तत्कुक्षिप्रविष्टत्वं बोध्यम् उक्तप्रसङ्गे इष्टापत्तित्वमाशङ्कय प्रतिक्षिपति-न चेति । सामायिके द्रव्य-पर्यायात्मकत्वस्याद्वादसिद्धावपि तद्भेदाऽभेदस्थाद्वादोत्थापन. मूलाऽऽकाङ्क्षा भवत्येव, ततश्च तन्निवृत्तये तद्भेदाऽभेदस्याद्वादोऽवतरत्येवेत्यनुभूयमानस्य सामायिके द्रव्य-पर्यायात्मकत्वसिद्धयनन्तरमुक्ताऽऽकाङ्काव्युपरमाऽभावस्याऽपलापाऽसम्भवादुक्तप्रसङ्गस्येष्टाऽऽपत्त्या परिहरणं न सम्भवतीत्याह-तत्रेति-सामायिके इत्यर्थः । 'आकाङ्क्षाऽव्युपरमाभावाद्' इत्युक्तया निरुक्ताकाङ्क्षाऽव्युपरमप्रसङ्गस्यात्र दोषतयाऽभिप्रेतस्यानुभवविरोधत इष्टापत्तिर्न सम्भवतीति गूढाभिसन्धिः । ‘एवं सति' इत्यारभ्य 'दिग्' इति पर्यन्तग्रन्थस्यायं भावःयद्यपि सामायिके द्रव्यार्थिकनयात्मकं यत् 'सामायिकं द्रव्यम्' इति ज्ञानं तत्र प्रकारतया भासमानं यद् द्रव्यत्वम् , यश्च 'सामायिक गुणः' इति पर्यायार्थिकनयात्मके ज्ञाने प्रकारतया भासमानं गुणत्वम् , तदन्यतरप्रकारकज्ञानमिष्टसाधनमिति तादृशशानविशेष्यकेष्टसाधनत्वप्रकारकज्ञानात् 'तादृशज्ञानं मे जायताम्' इति जिज्ञासतः किं द्रव्यं सामायिकम् ? किं वा गुणः सामायिकम् ? इति प्रश्ने सति तत्प्रतिविधानं द्रव्याथिकनयावष्टम्मेन गुण-द्रव्ययोरमेदमुपादाय पर्यायार्थिकनयावष्टम्भेन तयोर्भेदमुपादाय च स्याद्गुण