________________
८२]
[ तत्त्वबोधिनीविकृतिविभूषितम् ___ अथ सामायिकपदात् सामायिकोपस्थितौ, तत्र द्रव्यार्थिकपर्यायाथिकनयान्यतरप्रकारप्रकारकज्ञानस्येष्टसाधनत्वज्ञानात् , तथैव जिज्ञासया, तथैव प्रश्नात् , तथैव प्रतिवचनरूपनय शब्दप्रयोगो अथेति। तत्र सामायिके, विशेष्यत्वं सप्तम्यर्थः, तस्य च शानेऽन्वयः, तथा च सामायिकनिष्ठविशेष्यताकद्रव्यार्थिकपर्यायार्थिकनयान्यतरप्रकारनिष्ठप्रकारताकशानस्य 'सामायिकं द्रव्यार्थिक-पर्यायार्थिकनयान्तरप्रकारवद्' इत्याकारकशानस्य, विषयत्वं विशेष्यतारूपं ज्ञानपदोत्तरषष्ठीविभतेरर्थः, एवं च निरुक्तज्ञाननिष्ठविशेष्यताकेष्टसाधनत्वनिष्ठप्रकारताकशानात् 'सामायिकनिष्ठविशेष्यताकद्रव्यार्थिक-पर्यायार्थिकनयान्यतरप्रकारनिष्टप्रकारताकज्ञानं सामायिक द्रव्यार्थिक-पर्यायाथिकनयाऽन्यतरप्रकारवदित्याकारकं मदिष्टसाधनम् . इत्याकारकात् , तथैव जिज्ञासया 'सामायिकं द्रव्यार्थिक-पर्यायार्थिकनयान्यतरप्रकारवदिति शानं मे जायताम्' इत्याकारिकयेच्छया, तथैव प्रश्नात् 'सामायिकं किं द्रव्यार्थिक-पर्यायाथिकनयाऽन्यतरप्रकारवत्' इति प्रश्नात् , तव प्रतिक्चनरूपनयशब्दप्रयोगः 'सामायिक द्रव्यार्थिकनयप्रकारवत्, सामायिक पर्यायाथिकनयप्रकारवत्' इत्येवं प्रतिवचनरूपनयशब्दप्रयोगः, द्रव्यार्थिकनयप्रका. रश्च जीवाऽभिन्नगुणत्वं गुणाऽभिन्नजीवत्वं च, पर्यायार्थिकनयप्रकारश्च जीवभिन्नगुणत्वं गुणभिन्नजीवत्वं च, एवं च द्रव्यार्थिकनयेन जीवाभिन्नगुणो गुणाऽभिन्नजीवो वा सामायिकमित्युत्तरवचनप्रयोगः, पर्यायार्थिकनयेन जीवभिन्नगुणो गुणभिन्नजीवो वा सामायिकमित्युत्तरवचनप्रयोगो नाऽनुपपन्न इत्यर्थः । प्रश्नयितुः प्रतिषचनविधातृवतृप्रतिवचनतस्तदभिप्रायलक्षणनयपरिशानतस्तदभिप्रायस्वरूपद्रव्यार्थिक- पर्यायार्थिकनयाऽन्यतरप्रकारप्रकारकज्ञानस्येष्टसाधनताज्ञानादितः प्रश्नप्रवृत्तिः, प्रश्नप्रवृत्तौ च वक्तप्रतिवचनप्रवृत्तितो वात्रभिप्रायलक्षणनयपरिज्ञानम्,इत्यन्योऽन्याश्रयादुपदर्शितपरामिप्रायो