________________
अनेकान्तव्यवस्थाप्रकरणम् ] ..
[ ८१ द्रव्य-गुणयोरभेदस्य वास्तवत्वेऽपि गुणे द्रव्यभेदस्यौत्प्रेक्षिकस्याङ्गीकारेण तमादाय द्रव्य-गुणपदयोः पर्यायत्वापत्युद्धारादिति चेत् ? मैवम्-सामायिके द्रव्यगुणत्वान्यतरव्याप्यशुद्धधर्मप्रकारकजिज्ञासायां तादृशविशिष्टधर्मप्रकारकबोधजनकनयशब्दप्रयोगस्याऽसङ्गतत्वापत्ते१रुद्धरत्वात् , नहि कोऽयमिति घटजिज्ञासायां चैत्रावलोकितमैत्रनिर्मितघटोऽयमित्यनुन्मत्तः प्रयुते । न्यायाद् द्रव्यव्यतिरेकेणानुपलम्भाद् गुणा असन्त एवेति द्रव्यार्थिकनये । गुणस्येवेति- गुणस्य परमार्थतोऽसत औत्प्रेक्षिकस्याङ्गीकार इवेत्यर्थः। मम मते नयद्वयस्योभयविषयकत्वाभ्युपगन्तमते । द्वव्यर्थिकपझे द्रव्यार्थिकस्यापि द्रव्याभिन्नगुणविषयकत्वमिति पक्षे । औलेक्षिकस्य कल्पितस्य । तमादाय औत्प्रेक्षिकद्रव्य-गुणमेदमादाय ॥
_ 'स्यादेतद्' इत्यारभ्य 'पर्यायात्वापत्त्युद्धारादिति चेद्' इत्यन्तेन परशङ्कामुपदश्य प्रतिक्षिपति- मैवमित्यादिना। किं द्रव्यं गुणो वा सामायिकमिति जिज्ञासा 'शुद्धद्रव्यत्वप्रकारकसामायिकविशेष्यकं शुद्धगुणत्वप्रकारकसामायिकविशेष्यकं वा ज्ञानं जायताम्' इत्याकारिका, तस्यां सत्यां तन्निवृत्तये 'द्रव्यं सामायिकम्' इति प्रयोगस्य 'गुणः सामायिकम्' इति प्रयोगस्य वा सङ्गतत्वम् न तु भवन्मते द्रव्यास्तिकनये 'जीवद्रव्याभिन्नो गुणः सामायिकम्' इति प्रयोगस्य, पर्यायास्तिकमते 'गुणभिन्नं जीवद्रव्यं सामायिकम्' इति प्रयोगस्य वा सङ्गतत्वम् , द्रव्य-गुणत्वान्यतरव्याप्यशुद्धधर्मस्यैव जिशासाविषयज्ञाननिरूपितप्रकारताश्रयत्वाद् , जीवाभिन्नगुणत्वस्य गुणभिन्नजीवत्वस्य चातथात्वादित्याह- सामायिके इति । तादृशशिधर्मेति- द्रव्य-गुणत्वान्यतरव्याप्यगुणभिन्नजीवत्वजीवाभिनगुणत्वधर्मेत्यर्थः । शुद्धधर्मप्रकारकजिज्ञासायां विशिष्टधर्मप्रकारकबोधजनकशब्दप्रयोगस्यासङ्गतत्वं तथाप्रयोगस्य क्वचिदप्यनुन्मत्तपुरुषकर्तृकत्वादर्शनतो द्रढयति- नहीति। परः शङ्कते