________________
[ तत्त्वबोधिनीविवृतिविभूषितम् मौत्प्रेक्षिकत्वेन शुक्तौ रजतारोपस्थले शुक्तौ रजतस्येव जीवे गुणानां वैज्ञानिकसम्बन्धस्यैवाभ्युपगमेन गुणनिरूपितवैज्ञानिकसम्बन्धवामित्यर्थो वाच्य इत्यसाम्मुख्यम्। ननु मम मते द्रव्यास्तिकपक्षे द्रव्यगुणपदयोराभेदेन पर्यायत्वापत्त्या द्रव्यं गुणो वेत्येकतरनिर्धारणा नुपपत्तिः, तव मते द्रव्यार्थिकपक्षे गुणस्येव मम मते द्रव्यार्थिकपक्षे साक्षादमेदसम्बन्धो न रजतस्य बाधितत्वादिति. शुकौ रजतभ्रमानन्तरं यद् 'इदं रजतम्' इति वाक्यं प्रयुज्यते तत्र बाधाच्छुक्तौ रजतस्य नामेदसम्बन्धः, किन्तु 'इदम् अभेदसम्बन्धावच्छिरजतनिष्ठप्रकारतानिरूपितज्ञानीयविशेष्यतासम्बन्धवद्' इत्येवं शुक्ती रजतस्य विज्ञानकृतसम्बन्धस्य यथाभ्युपगमस्तथा वास्तविके जीवे कल्पितानां गुणानां कश्चित्तादात्म्यलक्षणाऽविष्वग्भावः सम्बन्यो न सम्भवतीति विज्ञानकृतसम्बन्धस्यैव स्वमकारकमानविशेष्यत्वलक्षणस्थ तव मतेऽभ्युपगमेन स्वप्रकारकबानविशेष्यत्वलक्षणो यो गुणनिरूपितो गुणप्रतियोगिको वैज्ञानिक:- विज्ञानपरितो विज्ञानप्रयुक्तो वा सम्बन्धः, तद्वान् जीव इति 'जीवो गुणप्रतिपनः' इत्यस्याओं वाच्य इत्यर्थः। ननु मम मते' इति स्थाने 'न तु मम मते' इति पाठो युक्तः, 'न तु' इत्यस्य 'एकतरनिर्धारणाऽनुपपत्तिः' इत्यात्रान्वयः। मम मते नयद्वयस्य प्रत्येकं द्रव्य-पर्यायोभयविषयकत्वमित्यभ्युपगन्तुर्मते । द्रव्यास्तिकपक्षे द्रध्य-पर्याययोरत्यन्तममेद इति द्रव्यार्थिकनये, अस्मिन् पक्षे द्रव्यवत् तदत्यन्ताभिन्नस्य गुणस्यापि भाव एच, न तु तदपलाप इति द्रव्यं सामायिकमितिवत् गुणः सामायिकमित्यपि सम्भवत्येवेति 'द्रव्यमेव सामायिकं द्रव्यनये' इत्येकतरनिर्धारणानुपपत्तिरिति न पुनरित्यर्थः। तत्र हेतुः- तव मत इति भाष्यकर्तुर्मत इत्यर्थः। द्रव्यार्थिकपक्षे “ आदावन्ते व यन्नास्ति वर्तमानेऽपि तत् तथा" [ अध्यात्मोपनिषत् ] इति