________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७९ कत्वाभ्युपगमे निष्प्रत्यूहम्, तव मते स्याद्गुणविशिष्टजीव एवं सामायिकम् , स्याजीवगुण एव सामायिकमिति मिलिताभिलापवन्मम मते स्याजीवाभिन्नगुण एव सामायिकम् , स्याजीवभिन्नगुण एवं सामायिकमिति मिलितामिलापस्यापि सम्भवात् । न चैवं भगद्वयेऽपि द्रव्यप्रधान्यालामः, 'स्याञ्जीवाभिन्नगुण एव०' इत्यादेः 'स्याद्गुणाभिन्नजीव एव०' इत्यादेरपि सामानसंवितसंवेद्यतया लाभाभ्युपगमात् ॥
किञ्च, मम मते "जीवो गुणप्रतिपन्न " [पत्र-६१] इति नियुक्तिप्रतीके गुणाभिन्न इत्यर्थे साम्मुख्यम् , तव मते तु गुणानामिति द्रव्यार्थिकनये, स्याजीवभिन्नगुण एवं सामायिकमितीति पर्यायार्थिकनये । ननूक्तमिलिताऽभिलापे गुणस्यैव विशेष्यतयोक्तत्वेन प्राधान्यमिति न द्रव्यप्राधान्यलाभ इत्याशङ्कय प्रतिक्षिपति-न चेति । जीवाऽभिन्नतया गुणस्याऽधिगतौ गुणाभिन्नतया जीवस्याप्याधिगतिः समानसंविसंवेद्यतया स्यादेवेति द्रव्यस्याऽपि प्राधान्यलाभ इति निषेधहेतुमुपदर्शयति- स्याजीवाऽभिन्नगुण एवेत्यादेरिति- अत्राऽऽदिपदात् स्याज्जीवभिन्नगुण एवेत्यस्योपग्रहः। 'स्याद्गुणाऽभिन्नजीव एवेत्यादेः' इत्यत्राऽऽदिपदात् स्याद्गुणभिन्नजीव एवेत्यस्योपग्रहः। स्याजीवाभिन्नगुण इति ग्रहे गुणस्य जीवाभिन्नतयाऽवगाहने जीवस्यापि गुणाऽभिन्नतयाऽवगाहनम् , स्याजीवभिन्नगुण एवेति ग्रहे गुणस्य जीवभिन्नतयाऽवगाहने जीवस्यापि गुणभिन्नतयाऽवगाहनमिति । ___ परः स्वमते नियुक्तिगाथानुगुण्यं भाष्यकृन्मते तदनाउगुण्यं दर्शयति- किञ्चति । मम मते नयद्वयस्य प्रत्येकमुभयविषयकत्वमिति मते 'तव मते तु' भाष्यकर्तुमते पुनः । औत्प्रेक्षिकत्वेन कल्पितत्वेन । अर्थः 'गुणप्रतिपन्नः' इत्यस्यार्थः। शुक्तौ रजतारोपस्थल इति-शुक्तों