________________
७८ ]
[ तत्त्वबोधिनीधिवृतिविभूषितम् कविषयसमावेशेनाभ्युपगम्यमाने सर्व घटेत, न त्वेकैकग्राहेएकैकस्योभयविषयकत्वाभ्युपगमे, एवं हि मिलनस्याधिकविषयानुपनायकत्वेनानतिप्रयोजनत्वादित्यर्थः ॥ . स्यादेतत् , प्रत्येकमेकैकविषयत्वेऽप्युभयोमिलनस्य स्यात्कारलाञ्छनेन सम्यक्त्वापादनमेव प्रयोजनम् , तत् प्रत्येकमुभयविषयभ्युपगम्यमाने ' सति, इत्येवं विशिष्योपादानम् । सर्व घटेन द्रव्यार्थिकमते द्रव्यं सामायिकं पर्यायार्थिकनये गुणः सामायिकमित्युपपद्येत । 'न त्वेकैकप्राहे ' इत्यस्य 'एकैकस्योभयविषयकत्वाभ्युपगमे ' इति विवरणम् , द्रव्यार्थिकनयस्य द्रव्यपर्यायोभयविषयकत्वाभ्युपगमे पर्यायार्थिकस्य चेति तदर्थः, 'न घटेन' इत्यनुषज्यते । एवं हि हि-यतः, एकैकनयस्योभयविषयकत्वाभ्युपगमे । मिलनस्य द्रव्य-पर्यायोभयमिलनस्य । भधिकेति-एकेनापि नयेनोभयविषयोपदर्शन तदेव नयद्वयेनापीति नाधिविषयोपदर्शकत्वं नयद्वयमिलनस्येत्यधिकविषयानुपनायक त्वेनेत्यर्थः ।
परः शङ्कते- स्यादेतदिति । प्रत्येकमिति-भाष्यकृन्मते द्रव्यार्थिकस्य द्रव्यविषयकत्वे पर्यायार्थिकस्य पर्यायविषयकत्वेऽपि, द्रव्यपर्यायनयोभयमिलनस्य, स्यात्कारलाञ्छनेन विषये स्यात्पदार्थप्रवेशेन, स्याद्रव्यविषयत्वेन स्यात्पर्यायविषयत्वेन च, सम्यक्त्वाऽऽपादनम् द्रव्यस्य सामायिकत्वाभ्युपगमस्य गुणस्य सामायिकत्वाभ्युपगमस्य च सम्यक्त्वाऽऽपादनम् । तत् सम्यक्त्वाऽऽपादनलक्षणं प्रयोजनम्, अस्मन्मतेऽपि, प्रत्येकमिति-द्रव्यार्थिकनयस्य द्रव्य-पर्यायोभयविषयकत्वं पर्यायाथिकनयस्य द्रव्य-पर्यायोभयविषयकत्वमित्येवमभ्युपगमेऽपि । निष्प्रत्यूहं निर्विघ्नम् । तदेवोपदर्शयति-तवेति-भाष्यकर्तुरित्यर्थः । मम मते द्रव्यार्थिकस्य पर्यायार्थिकस्य च प्रत्येकं द्रव्यपर्यायोभयविषयकत्वमित्यभ्युपगन्तुर्मते । स्याजीवाऽभिन्न गुण एक सामायिक