________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७७ एकद्रव्यांशग्रहवेलायाम् , अविरुद्धमेव, तत् सामायिकम् , द्रव्यत्वेनेति शेषः, अतः किं द्रव्याथिकनयेनोपन्यस्तेन ? तदर्थस्यान्यत एव सिद्धेः, अनन्यलभ्यस्यैव विषयस्य नयान्तरकल्पकत्वात् ।।
तस्मात् किं द्रव्यं गुणो वा सामायिकमितीयं चिन्ता प्रस्तुता, अस्यां चिन्तायामुच्यते-द्रव्याथिकनयस्याभिप्रायेण द्रव्यम्, पर्यायार्थिकनयस्य मतेन गुणश्च, तत् सामायिकमित्येव व्याख्यानं श्रेयः॥
इतरथा-अन्यथा, पुनद्रव्यार्थिकस्य जीवादनन्यत् सामायिकम् , इतरस्य तु पर्यायार्थिकस्य, जीवाद् भिन्नं तद् , इति-एवं व्याख्यायमानम् , प्रागुक्तयुक्त्या , न घटेतेति शेषः। कथं पुनर्घटेत ? इत्याह उभयनयस्य-उभयोनेययोमिलितयो', उभयग्राहे-प्रत्येकोपनीतैकैउपन्यस्तेनेति पूरणम् । द्रव्यार्थिकनयोपन्यासवैयर्थ्य हेतुमाह-तदर्थस्येतिद्रव्यार्थिकनयप्रयोजनस्य द्रव्यं सामायिकमित्यस्येत्यर्थः। अन्यत एव सिद्धेः पर्यायार्थिकनयाऽभिप्रेतद्रव्याऽभ्युपगमत एव सम्भवात् । ननु ततस्तस्य सिद्धत्वेऽपि द्रव्यार्थिकनयतोऽपि सिद्धिरित्यतो द्रव्यार्थिकनयोपन्यास इत्यत आह- अनन्यलभ्यस्यवेति ।
इत्थ परव्याख्यानस्यायुक्तत्वे स्थापिते स्वव्याख्यानस्य युक्तत्वं भाष्यकृदुपसंहरति-तस्मादिति ।।
इतरथेत्यस्य विवरणम्-अन्यथेति- अस्मदुपदर्शितव्याख्यानानादरणे इति तदर्थः । तत् सामायिकम् । 'इति' इत्यस्य ‘एवं व्याख्यायमानम्' इति विवरणम् । प्रागुक्तेत्यादि पूरणम् , “ जइ पजाय नउ च्चिअ०" [पत्र-७४] इत्यादिपूर्वोक्तयुक्तयेति तदर्थः। उत्तरार्द्धमवतारयति- कथमिति । 'उभयनयोभयग्रहे ' इति समस्तस्य विग्रहमुपादाय व्याख्या नम्- उभयनयस्येत्यादि । ' उभयनयस्य ' इत्यस्य — उभयोर्नययोर्मिलितयोः' इत्यर्थकथनम् । 'उभयग्राहे ' इत्यस्य 'प्रत्येकोपनीतेकविषयसमावेशेनाऊ