________________
[ तत्त्वबोधिनीविकृतिविभूषितम् पगमादन्येन चात्यन्तमेदाभ्युपगमादित्यर्थः। तथा प्रत्येकमुभयग्रहेऽप्युभयं मिथ्यात्वम् , एकान्ताद्-एकान्तेन प्रत्येकमेकत्वान्यत्वग्रहात्।
तत्रोच्यते-ननु द्रव्य-पर्याययोरेकत्वे त्वदभिप्रायतो द्रव्या'थिंकेनेष्यमाणे 'द्रव्यं गुणः' इति ध्वनिद्वयमिदमेकार्थवाचकत्वादिन्द्रपुरन्दरादिध्वनिवत् पर्यायवचनमात्रमेव स्यात् । तस्मात् 'सामायिकं द्रव्यं वा गुणो वा' इति द्रव्यार्थिकनयग्रहः स्यात् , न पुनः 'तद् द्रव्यमेव' इति तद्वहो भवेत् , न चैवमिष्यते, द्रव्याथिकनयमतेन द्रव्यरूपस्यैव तस्य प्रसिद्धरिति ।।
तथा, यदि भिन्नोभयग्राही पर्यायनयस्त्वयेष्यते, तदैकपक्षे पगमवैचित्र्यसद्भावाद् भिन्नत्वमित्यर्थः । तथा एवमभ्युपगमे । प्रत्येक द्रव्यार्थिकस्य पर्यायार्थिकस्य च । उभयग्रहेऽपि द्रव्य-पर्यायोभयाऽभ्युपगमेऽपि सति । उभयं द्रव्य-पर्यायनयद्वयम् । एकान्तेनेति-द्रव्यार्थिक एकान्तेन द्रव्यपर्यायोभयैकत्वग्राहकत्वात् पर्यायार्थिक एकान्तेन द्रव्यपर्यायोभयान्यत्वग्राहकत्वान्मिथ्यात्वमित्यर्थः ॥ ___एवं सति परमते यदापतितं तदुपदर्शयति-तत्रोच्यत इति । द्रव्यार्थिकनये द्रव्य-पर्यायशब्दयोःपर्यायत्वे परमते प्राप्ते सति द्रव्यं वा गुणो वा सामायिकमिति स्यान्न तु द्रव्यमेव सामायिकम् , इष्टं च द्रव्यनये द्रव्यमेव सामायिकमिति तद्धानिः स्यादित्युपसंहरति-तस्मादिति। तद्ग्रहो द्रव्यार्थिकनयग्रहः । न चैवमिष्यते द्रव्यनये द्रव्यं वा गुणो वा सामायिकमिति नेष्यते । तत्र हेतुः-द्रव्यार्थिकेति। तस्य सामायिकस्य ॥
परमते पर्यायार्थिकस्य द्रव्यग्राहकत्वं पर्यायग्राहकत्वमिति द्रव्यग्राहकत्वे सामायिकस्य द्रव्यत्वेन द्रव्यमेव सामायिकमित्यस्य सिद्धौ तदर्थ द्रव्याथिकनयोपन्यासो व्यर्थः स्यादित्याह-तथेति । 'त्वयेष्यते' इति पूरणम् । एकपक्षे ' इत्यस्य व्याख्यानम्- एकद्रव्यांशप्रहवेकायामिति ।