________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७५ तम्हा किं सामइअं हवेज दव्वं गुणो त्ति चिंतेयं । दव्वट्ठियस्स दव्वं गुणो य तं पज्जवणयस्स ॥ इहरा जीवाष्णनं दवनयस्सेयरस्स भिन्नं ति । उभयनओभयगाहे घडेज णेकेकगाहंमि" | [विशेषावश्यकभाष्यगाथाः-२६५४, ५५, ५६, ५७, २६५८,]
व्याख्या-यदि भोः! पर्यायनय एव द्रव्य-पर्यायौ द्वावपि, सम्मन्यते-अभ्युपगच्छति, तर्हि द्रव्याथिकः किमर्थम् ? द्रव्यपरिकल्पना 'त्वयेष्यत' इति शेषः, पर्यायनयाभ्युपगमेनापि द्रव्यस्य सिद्धत्वादिति भावः । यदि चैवम्भूता मतिः स्यात् परस्य, द्वावपिद्रव्य-पर्यायौ, यद्-यस्माद् अभिन्नौ-परस्परात्म(स्परमे)कत्वमापनौ।।
इच्छति, स:-द्रव्यार्थिकनय इति सम्बन्धः । तेन कारणेनेदमुभयं द्रव्यपर्यायार्थिकनयद्वयम् , उभयग्राहेऽपि सति-प्रत्येकमुभयाभ्युपगमेऽपि सति, पृथग्भूतं-भिन्नम् , एकेनोभयोरत्यन्तमभेदाभ्यु
षडपि गाथाः क्रमेण विवृणोति- यदि भोरिति । ' सम्मन्यते' इत्यस्य 'मभ्युपगच्छति' इत्यर्थः। 'द्रव्याथिक' इत्यस्यैव द्रव्यपरिकल्पनारूपत्वे 'त्वयेष्यते' इत्येतावन्मात्रस्यैव शेषः । द्रव्यसिद्धयर्थं द्रव्यार्थिकनयस्त्वयेष्यते, द्रव्यसिद्धिश्च .पर्यायार्थिकतयैव सातेति व्यर्थं द्रव्याथिकनयपरिकल्पनं त्वन्मते स्यादित्याह- पर्यायनयाभ्युपगमेनापीति । परस्येति पूरणम् , अन्यत् स्पष्टम् ॥
प्रत्येकमिति-द्रव्यार्थिकस्य द्रव्य-पर्यायोभयाभ्युपगमे पर्यायार्थिकस्यापि द्रव्य-पर्यायोभयाभ्युपगमे च सति । एवमपि द्रव्यपर्यायार्थिकनयद्वयमन्योन्यभिन्नमित्यत्र हेतुमाह- एकेनेति-द्रव्यार्थिकनयेन द्रव्य-पर्यायोरत्यन्तमभेदस्याभ्युपगमात् पर्यायार्थिकनयेन पुनद्रव्य-पर्याययोरत्यन्तमेदस्याभ्युपगमादित्यतस्तयोर्द्रव्य-पर्यायाभ्यु.