________________
९६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् केवलिना केवलज्ञानोपयोगे प्रधान्यनाजवषयीक्रियमाणत्वमेव वा द्रव्यार्थिकमते पर्यायाणामसत्त्वम् । न चेदं परिभाषामात्रम् , निधयतः केवलज्ञानस्थैव पदाथसत्तायां प्रमाणत्वात् , छानस्थिकज्ञानानां संवादादिना व्यवहारत एव प्रामाण्याभिमानादिति दिए । द्रव्यस्याभावे कथं केवलज्ञानविषयत्वमित्याशय प्रतिक्षिपतिन त । प्रातसूर्यस्यात-जल सूर्यप्रतिबिम्बमसदांप जलस्योपधायकं भवति, ततः सूर्यप्रतिबिम्बापाहमिद जलमित व्याद्वयते, तथा चासतोऽपि प्रांतसूर्यस्योपधायकत्वदर्शनेनासत्त्वस्योपधायकत्वेन सह विरोधाऽभावादित्यर्थः । ननु उपधायकभानमन्तरोपाहतस्य भानं न सम्भवतीति पर्यायोपहितद्रव्यभान पर्यायभानमावश्यकमिति केवलज्ञानविषयत्वात् पर्यायाणां सत्त्वं स्यादित्यत आहकेवालनेति । प्रधान्यनात-पर्यायोपहितद्रव्यभान पयायाणा प्रकारतयैव भान न विशेष्यतयात प्राधान्येनावषयीक्रियमाणत्वमस्त्येव पर्यायाणामिति तद्रूपमसत्त्वं केवलज्ञानविषयत्वेऽपि पर्यायाणां निर्वहत्येवेत्यर्थः । ननु केवलज्ञान भवतु पर्यायाणां प्राधान्येनाविषयीकरणम् , अस्मदादिक्षाने तु तेषामपि प्राधान्येन विषयीकरणं भवत्येवेति केवलज्ञानोपयागे प्राधान्येनाऽऽवषयाक्रियमाणत्वमसत्त्व मिति परिभाषामात्रम् , अस्मदादिक्षाने प्राधान्येन विषयीक्रियमाणत्वतो वास्तविकसत्त्वस्य पर्यायाणां सम्भवादित्याशङ्कां प्रांतक्षिपति-न चेति । इदं केवलशानोपयोगे प्राधान्येनाऽविषयीक्रियमाणत्वमसत्त्वम् । निषेधे हेतुमाह-निश्चयत इति-केवलज्ञानमेव सम्पूर्णवस्तुस्वरूपग्राहकत्वान्निश्चयतः प्रमाणमिति प्राधान्येन यदेव तद्विषयस्तदेव सदिति पदार्थसत्तायां तस्यव प्रमाणत्वात् , छानस्थिकज्ञानानां तु सम्पूर्णवस्तुविषयकत्वाऽभावान्न निश्चयतःप्रामाण्य किन्तु संवादादिना व्यवहारतः प्रामाण्याऽभिमानमेवेति न प्राधान्येन तद्विषयत्वतः पर्यायाणां सत्त्वमित्यर्थः ॥